________________ 218 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे अवलोक्य, मौनरुचिम् , निजप्रियाम् , रतिम् , स्मरन् , स्मरः, लज्जितः // 4 // वृत्तिः-कृतशूरपूरणे-कृतं विहितं शूरै टैः पूरणं येन, अथवा कृतं शूराणां वीराणां पूरणमभिलाषस्य येन न कृतपूरणस्तस्मिंस्तथा, सतीति शेषः / स्वरागभागात-स्वस्य आत्मनो रागोऽनुरागः स्वरागस्तस्य भागोंऽशः स्वरागभागस्तस्मात्तथा / स्वामिगुणाङ्गनाटने-स्वामिनः प्रभोः श्रीशान्तिनाथस्य गुणा दयादाक्षिण्यपरोपकारित्वत्यागशौर्यादयः स्वामिगुणास्तेषामङ्गम् प्रतीकः स्वामिगुणाङ्गम् तस्य नाटनम् अभिनयनादि स्वामिगुणाङ्गनाटनम् तस्मिंस्तथा / स्वनन्ती:शब्दायमानाः / सुराङ्गना-सुराणां देवानामङ्गनाः प्रशस्ताङ्गवत्यः कामिन्यः सुराङ्गनास्तास्तथा / अवलोक्य-प्रेक्ष्य, दृष्टुति यावत् / मौनरूचिम्-मौनेऽभाषणे रुचिरभिलाषो यस्याः सा मौनरुचिस्तान्तथा / निजप्रियाम्-निजा स्वीया चासौ प्रिया वल्लभा निजप्रिया तान्तथा / रतिम्-तदाख्यद्वितीयाम् / स्मरन-चिन्तयन् / स्मरः-कन्दपः / लज्जित:-लज्जा-त्रपा सज्जाता अस्येति लज्जितः / तारकादित्वादितः प्रत्ययः / अभूदिति शेषः // 4 // मरुललत्पल्लवकण्टकैः क्षत, वनेषु पात्रं न पुनर्जनेषु तत् / जिने दिनेशेऽभ्युदितेऽवरोधन, वधूजनेष्वेव न पूर्जने मनाक् // 5 // अन्वयः—वनेषु, पात्रम् , मरुल्ललत्पल्लवकण्टकैः, क्षतम् , पुनः, जनेषु, तत् , न, दिनेशे, जिने, अभ्युदिते, अवरोधनम् , वधूजनेषु, एव, पूर्जने, मनाक् , न // 5 // वृत्तिः-वनेषु-काननेषु / एवेति शेषः / पात्रम्-पर्णम् , वृक्षसम्बन्धीतिशेषः / 'पात्रं तु कूलयोर्मध्ये, पर्णे नृपतिमन्त्रिणि / योग्यभाजनयोर्यज्ञभाण्डे नाट्यानुकर्तरि' इत्यनेकार्थः / मरुखलत्पल्लवकण्टक-मरुता वायुना ललन्तो विलसन्तो ये पल्लवाः शाखाग्राणि मरुल्ललत्पल्लवास्तेषां कण्टकानि द्रुमाङ्गानि, मरुल्ललत्पल्लवकण्टकानि तैः क्षतम, मरुल्ललत्पल्लवकण्टकक्षतम् / पुन:-किन्तु / जनेषुलोकेषु / प्रजास्विति यावत् / तत्-पात्रम् / योग्यजन इति यावत् / न-नहि / क्षतमिति शेषः / दिनेशे-सूर्ये / जिने-अर्हति भगवति शान्तिनाथ इति यावत् / दिनेशरूपे जिने इति जिने दिनेशत्वारोपणाद्रूपकमलङ्कारः। अभ्युदिते-समुन्नते / सतीति शेषः / “तद्रूपकमभेदो य उपमानोपमेययोः” इति काव्यप्रकाशकारो मम्मटः / अवरोधनम्-अवरोधः, स्वैरनिर्गमनप्रतिरोध इति यावत् / वधूजनेषु-रमणीलोकेषु / एव-अवधारणार्थकमव्ययम् / पूर्जने-पुरो नगरस्य जनो लोकः पूर्जनस्तस्मिँस्तथा / मनाक-ईषत् अपीति शेषः / अवरोध इति च शेषः / न-नहि / परिसख्यालङ्कारः // 5 //