________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां चतुर्यः सर्गः [217 वृत्तिः-अभिषेके राज्याभिषेके / कृते-विहिते / सतीति शेषः / मनोभव:-कन्दर्पः / नृपरूपभादृशः-नृपस्य भगवतो राज्ञः शान्तिनाथस्य रूपभे सौन्दर्यकान्ती नृपरूपभे ते पश्यन्तीति; नृपरूपभादृशस्तास्तथा / रूपशब्दापेक्षया भाशब्दस्याल्पाक्षरत्वेऽपि अभ्यर्हितत्वात् रूपशब्दस्यैव पूर्वनिपातः / समाम्-निखिलाम् / रसावेशवशाम्-शृङ्गारादिरसातिरेकाधीनाम् इत्यर्थः / दशाम्अवस्थाम् / गताः-आप्ताः / स्त्रियः-नितम्बिनीः, रमणीरिति यावत् / समद्दीश्य-लक्ष्यीकृत्य / कुसुमात्-पुष्पत्वजात्यवच्छिन्नात् / कुसुमलक्षणाद्धनुषः सकाशादिति यावत् / गुणस्पृशः-मौर्वीस्पृशः / शिलीमुखाली:-बाणालीः, भ्रमररूपबाणसमूहानिति यावत् / अमुचत्-अत्यजत् // 2 // कुतूहलेऽस्मिन् जनराजिसङ्कले, मिलच्चलाक्षीजनलक्षवीक्षणात् / स्वचापदुर्निर्गतमार्गणभ्रमाद्, न कस्य हास्याय भटा विलक्षिताः // 3 // अन्वयः-जनराजिसङ्कुले, अस्मिन्, कुतूहले, मिलचलाक्षीजनलक्षवीक्षणात् , स्वचापदुर्निर्गतमार्गणभ्रमात् , मटाः, कस्य, हास्याय, न, विलक्षिताः // 3 // वृत्तिः-जनराजिसडकुले-जनानां लोकाना राजिः श्रेणी, समुदय इति यावत् , जनराजिः, तया सङ्कुलम् व्याप्तम् , जनराजिसङ्कुलम् तस्मिंस्तथा / अस्मिन्-दिगविजयप्रयुक्तद्वादशवार्षिकोत्सकाभिषेकयोः सम्बन्धिनीत्यर्थः / कुतूहले-कौतूहले / मिलच्चलाक्षीजनलक्षवीक्षणाव-चले चश्चले अक्षिणी नयने यासा ताश्चलाक्ष्यस्ता एव जनो लोकश्चलाक्षोजन, तस्य लक्षम् चलाक्षीजनलक्षम् , मिलत् संगच्छमानत् च तत्-चलाक्षीजनलक्षम् मिलच्चलाक्षीजनलझम् तस्य वीक्षणम् अवलोकनम् मिलच्चलाक्षीजनलझवीक्षणम् , तस्मात्तथा / स्वचापदुर्निर्गतमार्गणभ्रमात्-स्वचापात् निजधनुषः दुर्निर्गताः निःसृताः स्वचापदुर्निर्गताः / ते च ते मार्गणा बाणाः, स्वचापदुनिर्गतमार्गणास्तेषां भ्रमो भ्रान्तिः, स्वचापदुर्निर्गतमार्गणभ्रमस्तस्मात्तथा / भटा:-योधाः, वीराः इति यावत् / कस्यकिमात्मकस्य जनस्येत्यर्थः / हास्याय-हास्यहेतवे / न-नहि / विलक्षिता:-दृष्टाः / अपि तु सर्वस्यापीत्यर्थः / “दुर्निर्गतो हि बाणे ध्वनति लक्ष्यं च न स्पृशति तेन, धानुष्को लज्जते इति लोकस्वभावोक्त्या स्वभावोक्तिरलङ्कारः / स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम्” इति काव्यप्रकाशकारो मम्मटः // 3 // सुराङ्गनाः स्वामिगुणाङ्गनाटने, स्वरागभागात् कृतशूरपूरणे / निजप्रियां मौनरुचिं रति स्मरन्, स्मरः स्वनन्तीरवलोक्य लज्जितः // 4 // अन्वयः-कृतशूरपूरणे, (सति) स्वरागभागात् , स्वामिगुणाङ्गनाटने, स्वनन्ती:, सुराङ्गनाः,