________________ // * // अथ चतुर्थः सर्गः ॥ॐ // तदङ्गमुद्दीश्य सुगन्धिपातुका, महौषधिप्राप्तरसा रसाधिकाः / अपः प्रपद्याम्बुनिधेरधैर्यता-ऽजनिष्ट मृष्टान्यपयोनिधेर्भिया // 1 // अन्वयः-तदङ्गम् , उद्दीश्य, सुगन्धिपातुकार, महौषधिप्राप्तरसाः, रसाधिकाः, अपः, प्रपथ, मृष्टान्यपयोनिधेः, भिया, अम्बुनिषेः, अधैर्य्यता, अजनिष्ट // 1 // वृत्तिः तदङ्गम- तस्य भगवतः शान्थिनाथस्य अङ्गम् शरीरम् तदवयवत्वोपाधिविशिष्टं वा तदङ्गम् / उद्दीश्य-लक्ष्यीकृत्य / सुगन्धिपातुका:-शोभनो गन्धो यस्य स सुगन्धिः, शोभनगन्धवव्यम् , पातयन्ति निझिपन्तीति पातुकाः / तस्य पातुकाः सुगन्धिपातुकाः / महौषधिप्राप्तरसाःमहत्यश्च ताः औषधय फलपाकावसानिका इति यावत् महौषधयस्ताभिः प्राप्तोऽधिगतो रस आस्वादो याभिस्ता महौषधिप्राप्तरसास्तास्तथा / रसाधिका:-रसैः मधुराम्ललवणकटुकाषायादिभिरधिका रसाधिकाः, रसैः कृत्वा आधिक्यमुपगता इति भावः / अप:-जलानि / प्रपद्यसमधिगत्य / मृष्टान्यपयोनिधे-अन्योऽपरश्वासो पयोनिधिः समुद्रोऽन्यपयोनिधिः मृष्टः शुद्धश्चासासावन्यपयोनिधिदृष्टान्यपयोनिधिस्तस्मात्तथा / भिया-भयेन / अम्बुनिधेः-अम्बूनि जलानि निधीयन्तेऽस्मिन्निति अम्बुनिधिः समुद्रस्तस्य तथा "व्याप्यादाधारे" 5 / 3 / 88 // इत्यनेन आधारे 'कि' प्रत्ययः / अधैर्यता-धीरो धैर्यान्वितस्तस्य भावो धैर्यम् , न धैय्यं यस्य सोऽधैर्य्यस्तस्य भावोऽधैर्यता, धैर्याभाव इत्यर्थः / अजनिष्ट-समजायत , समुदपद्यतेति यावत् / समुद्रस्य भयसम्बन्धाभावेऽपि तत्सम्बन्धोक्तरसम्बन्धे सम्बन्धरूपाऽतिशयोक्तिरलङ्कारः “भेदेऽप्यभेदः सम्बन्धेऽसम्बन्धस्तद्विपर्ययः” इति साहित्यदर्पणः // 1 // कृतेऽभिषेके नृपरूपभादृशः, शिलीमुखालीः कुसुमाद् गुणस्पृशः। स्त्रियः समुद्दिश्य मनोभवोऽमुचत्, सम रसावेशवशां दशां गताः // 2 // अन्वयः--अमिणे, कृते, (सति) मनोभवः, नृपरूपभादृशः, समम् , रसावेशवशाम् , दशाम् , गता, स्त्रियः, समुद्दिश्य, कुसुमात् , गुणस्पृश, शिलीमुखाली, अमुचत् // 2 //