________________ -बाचार्यविषयामृतसूरीश्वतकृतायो विद्वतिनोविन्यां तृतीय सर्गः [215 शेषः) वा-अथवा / अरतौ-अननुरागे, द्वेषे इति यावत् / रागावच्छिन्नद्वेषावच्छिन्नत्वविरहितमिति यावत् / तत्-तस्माद्धेतोः। एव-अवधारणार्थकमव्ययम् / अनामनस्यम्-न आमनस्यं दुःखं यत्र सदनामनस्यम् / तु-पुनः / अवीतरागस्य-वीतरागशब्दः पूर्वार्थः, न-वीतरागोऽवीतरागस्तस्य तथा / वीतरागताज्वलत्कणम्-वीतरागो-रागाभाववान् , तस्य भावा वीतरागताः रागाभावा इत्यर्थः वीतरागताः रागाभावरूपा, ज्वलत्कणा देदीप्यमानस्फुलिङ्गा यस्मात् सः वीतरागताज्वलत्कणस्तन्तथा। शाणम्-निकषम् / इव-यथा / मन:-अन्तःकरणम् / व्यलोकयत्-अपश्यत्, अजानादिति यावत् // 116 // (पाठान्तरम् ) कृपालयं पालयतोऽहंदीशितु-वामन वा मननेन तन्मनः। जगत्पर पौरजने जगभुजि-ज्वलत्कणं शाणमिव व्यलोकयत् // 116 // अन्वयः-पौरजनः, जगत् , पालयतः, अहंदीशितुः, कृपालयम , वा, मननेन , अवामनम् , तत् , परम् , मनः, जगद्भुजिज्वलत्कणम् , शाणम् , इव, ब्यलोकयत् // 116 // वृत्तिः-पौरजनः-नागरिकलोकः / जगत्-भुवनम् / पालयतः-रक्षतः / अहंदीशितु:अर्हन-तीर्थकृञ्चासावीशिता प्रभु यक इति यावदहंदीशिता, तस्य तथा / कृपालयम्-दयानिलयम् / वा-समुच्चये / मननेन-ज्ञानेन / अवामनम्-अखर्वम् / पटुतरमिति यावत् / परम्-विशिष्टम् , श्रेष्ठमिति यावत् / मनः-हृदयम् / जगद्भुजिज्वलत्कणम्-जगतो जगल्लोकस्य मुजिर्भोजनम् बहुभोजनम् , तत्र ज्वलन्तः कणः स्फुलिङ्गा यस्मिन् सज्वलद्भजिज्वलत्कणस्तं तथा / शाणम्सशब्दम् / इव-यथा / व्यलोकयत्-अपश्यत् / अजानादितियावत् // 116 // गच्छाधीश्वरहीरहीरविजयाम्नाये निकाये धियां, मृत्यः श्रीविजयप्रभाख्यसुगुरोः श्रीमत्तपाख्ये गणे। शिष्यः प्राज्ञमणेः कृपादिविजय-स्याशास्यमानाग्रणीश्चक्रे वाचकनाममेघविजयः शस्यां समस्यामिमाम् // 117 // ( व्याख्यातपूर्वोऽयं श्लोकः / ) ___ इति वाचकप्रवरश्रीमेघविजयजिद्गणिराजविरचिते भीनैषधीयमहाकाव्यप्रथमसर्गपादपूर्तिस्वरूपे भीशान्तिनाथचरित्रे शासनसम्राट्सुरिचक्रचक्रवर्तितपागच्छाधिपतिभट्टाचार्यमहाराजाधिराज-भीविजयनेमिसूरीश्वरमहाराजपट्टालहारशास्त्रविशारदकविरत्नपीयूषपाणिपूज्यपादाचार्य महाराज-श्रीविजपामृतम्रीचरविरचितः विद्वद्विनोदिनीनामवृत्तिविभूषिते // तृतीयः सर्गः समातः //