________________ 214 ] भीबननषधीयमहाकाव्ये धीशान्तिमाषचरित्र सितानि, तादृशानि नागकेसराणि यत्र तत्तथा, शाकपार्थिवादेराकृतगणत्वान्मध्यमपदलोपिबहुव्रीहिसमासः / पुरम्-नगरम् / चक्रे-विदघे; कृतमिति यावत् / तस्मिन्-तत्र, नगरे / नृपः-अधिकृत राजिभिः / अभिषेचनात्-राज्याभिषेकविधानात् / भगवतः शान्तिनाथस्येतिशेषः / अन्वहम्प्रत्यहम् / द्वादशवार्षिक:-द्वादशवर्षात्मककालव्यापकः / महोत्सव:-महानतिशयितश्चासावुत्सवो महः, उद्धव इति यावद, महोत्सवः / व्यधायि-अकारि // 114 / / जने वधूनां लसदञ्जने दृशि, परस्परेणाभिनये तदुत्सवे / स मारनाराचनिघर्षणस्खल-त्कृतारणैराभरणैरमन्यत // 115 // अन्वयः -- तदुत्सवे, परस्परेण, अभिनये, लसदञ्जने, दृशि, वधूनाम् , जने, मारनाराच निघर्ष - णस्खलत्कृतारणैः, आभरणः, सः, अमन्यत // 115 // वृत्तिः–तदुत्सवे-स द्वादशवार्षिकश्चासावुत्सवो महः, तदुत्सवस्तस्मिँस्तथा / परस्परेणअन्योन्येन / कृते इति शेषः / अभिनये-रूपके / लसदञ्जने-लसद्विलसच्छोभामानमिति यावदञ्जनंकजलं नेत्रघटकतया यस्य सलसदञ्जनस्तस्मिंस्तथा / दृशि-वीझके / जने-लोके, यद्वा-दृशि, लसदञ्जने, वधूनां जने, इत्यवमन्येयम् , दृशोत्यत्र सप्तम्यर्थोऽवच्छिन्नत्वम् , एवञ्च दृशोत्यस्य हगवच्छेदेनेत्यर्थः, शेषं पूर्ववत् / मारनाराचनिघर्षणस्खलत्कृतारणैः-मारस्य - कामस्य, नाराचा बाणशल्यानि, मारनाराचाः तेषां निघर्षणम् , मारनाराचनि वर्षगम् तस्मात् स्खलन्तः भ्रश्यन्तः कृता विहिताश्च आरणाः सर्वतोभावेन शब्दा येषु तानि, मारनाराच निवर्व गस्खलाकृतारणानि तैस्तथा / आभरणैः-आभ्रियन्ते सम्भूष्यन्तेऽङ्गान्येभिरित्याभरणानि अलंकाराः तैस्तथा / उपलक्षित इति शेषः / स:-प्रसिद्धो भगवान शान्तिनाथ इति यावत् / अमन्यत-अवाबुध्यत / / 115 / / न वीतरागस्य रतौ नवाऽरता-वनामनस्यं मन एव तजनः। अवीतरागस्य तु वीतरागता-ज्वलत्कण शाणमिव व्यलोकयत् // 116 // अन्वयः-जनः, वीतरागस्य, रतौ, न, ( विद्यमानम् ) वा, अरतौ न, ( विद्यमानम् ) तत् , एव, अनामनस्यम् , तु, अवीतरागस्य, वीतरागताज्वलत्कणम् , शाणम् , इव, मनः, व्यलोकयत् // 116 // ___ वृति-जन:-नागरिको लोकः / वीतरागस्य-वीतो विशेषेण-इतो-गतो, रागः-अनुरागः, द्वेषो वा, तत्समुच्चयश्च यस्मात् स वीतरागस्तस्य तथा। रतौ-अनुरागे / न-नहि / (विद्यमानमिति