________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्विन्धदिन्यां तृतीयः सर्गः [ 213 निति पयोधिः समुद्रस्तस्मात्तथा / “व्याप्यदाधारे". 5 / 3 / 88 इत्यनेन कि' प्रत्ययः / समुच्छलत्स्वच्छमहामहोमणिम् -महसा-तेजसा युक्तो मणीरत्नम् महोमणिः, स्वच्छो-निर्मलो, महान् विशालश्चासौ महोमणिः, स्वच्छमहामहोमणिः, समुच्छलन्-निर्गच्छंश्चासौ स्वच्छमहामहोमणिः, तं तथा / द्युतिम्-प्रकाशम् , दीप्तिमिति यावत् / नयत्-प्रापयत् / उदीतम्-प्राप्तोदयम् / म्वतेजसाम्-निजप्रतापानाम् / बीजम्-निदानम् / इव-यथा / आतङ्कितवान्-चकितः / (सन् ) अशङ्कत-शङ्कितवान् // 112 // गलत्परागं भ्रमिभङ्गिभिः पत-द्धृतालिदूरीकरणेऽब्जमावहन् / स काकिणीरत्नसयत्नपाणिना, रराज राजन्यजयी कृपाणिना // 113 // अन्वयः-भ्रमिभङ्गिभिः, पतद्धृतालिदूरीकरणे, गलत्परागम् , अन्जम् , आवहन, राजन्यजयी, सः, कृपाणिना, काकिणीरत्नसयत्नपाणिना, रराज // 11 // वृत्तिः-भ्रमिभङ्गिभिः-भ्रमणरचनाविशेषैः / पतद्धतालिदरीकरणे-पतन्तो वृक्षादागच्छन्तो धृताश्च तेऽलयो भ्रमराः पतद्धतालयस्तेषां दूरीकरणमपनयनम् , पतद्धतालिदूरीकरणम् तस्मिँस्तथा सतीति शेषः / गलत्परागम-गलन्तो भ्रश्यन्तः परागाः पुष्परजांसि यस्मात्तद्गलत्परागम् , तत्तथा / अब्जम्-अप्सु जलेषु जायते इत्यब्जम् कमलम् तत्तथा / आवहन्-धारयन् / राजन्यजयी-राजन्यान क्षत्रियान् जयति तच्छीलो राजन्यजयी / "अजातेः शीले" 5 / 1 154 / इत्यनेन तच्छीले 'णिन्' प्रत्ययः / सः-चक्रित्वेन प्रसिद्धो भगवान् शान्तिनाथः / कृपाणिना-कृपाणः खङ्गोऽस्त्यस्मिन्निति छपाणी तेन तथा / काकिणीरत्नसयत्नपाणिा-काकिणीरत्ने तदाख्यमणौ सयत्नः सप्रयासः काकिणीरत्नसयत्नः स चासौ . पाणिहस्तः काकिणीरत्नसयत्नपाणिस्तेन तथा / ररोज शुशुभे // 113 // नृपेण चक्रे ह्यवनीवना पुरं, प्रसक्तभृङ्गावलिनागकेसरम् / व्यधायि तस्मिन्नभिषेचनान्नृपै - महोत्सवो द्वादशवार्षिकोऽन्वहम् // 114 // अन्वयः-नृपेण, अवनीवनी, प्रसक्तभृङ्गावलिनागकेसरम् , पुरम् , चक्रे, तस्मिन् , नृपैः, अभिषेचनात् , अन्वहम् , द्वादशवार्षिका, महोत्सवः, व्यधायि // 114 // अधि:-नृपेण-राजा, भगवता शान्तिनाथेन / अवनीवनी-अवन्या भूमौ वनी वनराजी अवनोवनी / प्रसक्तभृङ्गावलिनागकेसरम्-भृङ्गावलिभिर्धमरराजिभिर्विलसितानि भृङ्गावलिविल.