________________ 212. ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्र . वृत्तिः-इह-अत्र / अधीरया-धैर्य्यरहितया / धिया-बुद्धया / चाम्पेयम्-चम्पकम् / निपीय-सादरमवलोक्य / अग्रतः-पुरतः / घनच्छायम-घना सान्द्रा छाया आतपाभावो यत्र तत्र घनच्छायम् / वनम्-काननम् / अग्रहीत-गृहीतवान् , समाश्रयदिति यावत् / मणि-मणिस्वरूपः / तेजसा देदीप्यमान इति यावत् / पुरोधाः-पुरोऽग्रतो धीयते स्थाप्यते इति पुरोधाः परोहितः / स्वकान्तकान्तागमनात- कान्ता प्रिया चासौ कान्ता रमणी कान्तकान्ता स्वस्य कान्तकान्ता तस्या आगमनम् स्वकान्तकान्तागमनम् तस्मात्तथा / अवरोधसङ्गतम्-अवरोधस्य अन्तःपुरस्य सङ्गतः सम्बन्धी अवरोधसङ्गतस्तं तथा, अन्तःपुरविषयकमित्यर्थः / स्मरम्-स्मरणम् / गतः-प्राप्तः // 110 / / अखण्डदण्डं महसाऽभिपिण्डितं, सुवर्णवर्णाशुककेतुमण्डितम् / स धूमकेतुं विपदे वियोगिना-मजीगणद् नाशयितु गणं द्विषाम् // 111 // अन्वय-सः, महसा, अभिपिण्डितम् , सुवर्णवर्णाशुककेतुमण्डितम् , वियोगिनाम् विपदे, धूमकेतुम् , अखण्डदण्डम् , द्विषाम् , गणम् , विनाशयितुम् , अजीगणत् // 111 // वृत्तिः-स:-चक्रवर्तित्वेन प्रसिद्धो भगवान् शान्तिनाथः / महसा-तेजसा / अभिपिण्डितम्सम्मिलितम् / सुवर्णवर्णांशुककेतुमण्डितम्-सुवर्णवर्ण काश्चनाभञ्च तदंशुकम् वस्त्रम् सुवर्णवर्णाशुकम् तदेव केतुः पताका तेन मण्डितो भूषितः, सुवर्णवर्णाशुककेतुमण्डितस्तं तथा / वियोगिनाम्विप्रयुक्तानाम् , प्रियतमाविरहितानामिति यावत् / विपदे-विपत्तये / विपत्तिदानार्थमिति यावत् / धूमकेतुम्-उत्पातविशेषरूपमिवेति यावत् / अखण्डदण्डम्-अखण्डः सम्पूर्णश्चासौ दण्डः तदाख्यं रत्नम् अखण्डदण्डस्तन्तथा / द्विषाम्-द्विषन्त्यप्रीतयन्तीति द्विषः, शत्रवस्तेषां तथा / गणम्व्यूहम्, समूहमिति यावत् / विनाशयितुम्-समुन्मूलयितुम् / अजीगणत्-समख्यात् , अगणयदिति यावत् // 111 // हृदः पयोधेः स गभीरताभृतः, समुच्छलत्स्वच्छमहामहोमणिम् / स्वतेजसां बीजमिव द्युतिं नय-दुदीतमातङ्कितवानशङ्कत // 112 // अन्वयः-सः, गभीरतामृतः, हृदः, पयोधेः, समुच्छलत्स्वच्छमहामहोमणिम् , पुतिम् , नयत् , उदीतम् , स्वतेजसाम् , बीजम्, इव, आतङ्कितवान् , ( सन् ) अशङ्कत // 112 // वृत्तिः-स:-प्रसिद्धः भगवान् शान्तिनाथः / गभीरताभृतः-गभीरता गाम्भीयं, बिभर्तिधारयतीति गमीरताभृत् तस्मात्तथा। हुदा-दयात्मकात् / पयोधेः-पांसि जलानि, धीयन्तेऽस्मि