________________ -वाचार्य विषयामृतसूरीबरकतायां विद्वदिनोदिन्यां तृतीयः सर्गः / [211 यावत्। अपि-सम्भावनायाम् / अलिस्रजा-भ्रमरपक्क्या , भ्रमरसमूहेनेति यावत् / उबशेखरम्उनताप्रभागम् / कुडमलम्-चाम्पेयमुकुलम् / निरीक्ष्य-अवलोक्य / द्रमे-वृक्षे / अपि-सम्भावनायाम् / फलोदयश्रिये-फलस्य तरुशस्यस्य उदयोऽभ्युदयः फलोदयस्तस्य श्रीः शोभा फलोदयश्रीस्तस्यै तथा / यद्वा-फलोदयाच्छीलक्ष्मीः फलोदयश्रीस्तस्यै तथा / दानातिशय:-दानस्य वितरणस्य अतिशय आधिक्यम् दानातिशयः (चेत् ) सचेतसि-चेतसा हृदयेन सहितः सचेताः सहृदयस्तस्मिँस्तथा / पुरुष-जने / किं पुनः-किमु वक्तव्यमित्यर्थः / अचेतनवृक्षस्यापि यत्र फलोदयश्रीनिमित्तं दानातिशयितं किमु वक्तव्यं सचेतसः पुरुषस्येति कैमुतिकन्यायमूलस्वादर्थापत्तिरलङ्कारः / “दण्डापूपिकया. ऽन्यर्थागमोऽर्थापत्तिरिष्यते” इति तल्लक्षणं साहित्यदर्पणे // 109 / / ( पाठान्तरम् ) अलिस्रजा कुड्मलमुच्चशेखर, श्रिया जयचर्ममणिं नृणां मणिः / दधार धाराधरधारणे रणे, क्षमं गुरु द्वादशयोजनामम् // 109 // अन्वयः--नृणाम् , मणिः, अलिश्रिया, उच्चशेखरम् , कुड्मलम् , श्रिया, च, मणिम, जयत् , धाराधरधारणे, रणे, क्षमम् , गुरु, द्वादशयोजनप्रमम् , चर्म , दधार // 109 // वृत्तिः-नृणाम्-जनानाम् मध्ये इति शेषः / मणिः-रत्नम् / मनुष्यश्रेष्ठ इति यावत् / "रत्नं स्वजातिश्रेष्ठेऽपि मणावपि नपुसकम्” इत्यत्र मेदिनीकोशे रत्नपर्यायवाचकानामपि "विद्वन्मणिः" इत्यादिप्रयोगदर्शनात् स्वजातिश्रेष्ठत्ववाचकत्वमङ्गीकरणीयम्, षष्ठ्या निर्धारणार्थकत्वात् समासाभावः / अलिस्रजो-भ्रमरपक्तथा / उच्चशेखरम्-उन्नताग्रम् / कुड्मलम्-मुकुलम् / मणिम्-रत्नम् / कुड्मलरूपं मणिमिति व्यस्तरूपकमलङ्कारः / श्रिया-शोभया / जयतअधरीकुर्वत् / धाराधरधारणे-धारायाः निशिताप्रभागस्य धरो धारको धाराधरः कृपाणः खङ्ग इति यावत् , तस्य धारणं यस्मिन् स धाराधरधारणस्तस्मिंस्तथा / रणे-युद्धे / थमम्-समर्थम् / गुरु-महत् / द्वादशयोजनप्रमम्-द्वादशयोजनप्रमाणम् विस्तृतं तद्द्वादशयोजनप्रमितं भवतीति भावः / चर्म-तदभिधं रत्नम् / दधार-धृतवान् // वन घनच्छायमिहाग्रतोऽग्रहीद्, निपीय चाम्पेयमधीरया धिया। मणिः पुरोधा अवरोधसङ्गतं, स्वकान्तकान्तागमनात् स्मरं गतः॥११०॥ अन्वयः--इह, अधीरया, धिया, चाम्पेयम् , निपीय, अग्रतः, घनच्छायम् , वनम् , अग्रहीत्, मणिः, पुरोधाः, स्वकान्तकान्तागमनात् , अवरोधसंगतम् , स्मरम् , गतः // 110 //