________________ 21. ] श्रीजमनैषधीयमहाकाव्ये श्रीशान्तिनाथचरिणे (सन्) क-कुत्र / यासि-गच्छसि / इति-एवंप्रकारेण / पान्थम्-पन्थानं, नित्यं गच्छतीति पान्थस्तन्तथा / शपत:-शापं ददतः / इच-यथा। पिकान-कोकिलान् / द्विजान-पक्षिणः / भूरिकृतोपभोगम्-भूरिणा स्वर्णेन कृता भूरिकृताः, ते च ते उपभोगा भूरिकृतोपभोगाः, "मयूरव्यंसकेत्यादयश्वः" 3 / 1 / 116 / इत्यनेन शाकपार्थिवादेराकृतिगणत्वाद् मध्यमपदलोपी समासः; तान् ददातीति भूरिकृतोपभोगदम् // वार्धकिरनयत्नतः-वार्धकिरत्नस्य मनुष्यजातीयचवक्रर्तिसम्बन्धिविश्वकर्मकर्मसम्पादकस्य यत्नः प्रयत्नो वार्धकिरत्नयत्नस्तस्मात्तथा / कृतम्-विहितम् / पदम्-स्थानम् / मृषामिथ्या / अकरोत-व्यदधात् / / तैः कृतस्य वारणस्य वैयर्थ्यम् अन्यथापि स्थानलोभादेव तेषां गमनाभावस्य सिद्धत्वात् // 107 // यथेष्टदानेन विशिष्टशिष्टधीः, स्वसैन्यजन्ये शिबिरे प्रपापदे / / कयापि रीत्या पथिकान दैन्यतः, सखेदमैक्षिष्ट स लोहितेक्षणान् // 108 अन्वयः-विशिष्टशिष्टधीः, सः, यथेष्टदानेन, स्वसैन्यजन्ये, शिबिरे, प्रपापदे, कथा, अपि, रीत्या, दैन्यतः, सखेदम् , लोहितेक्षणान् , पथिकान्, न, ऐक्षिष्ट // 108 // वृत्तिः-विशिष्टशिष्टधीः-विशिष्टा विलक्षणा, शिष्टा साधीयसी, शिष्टजनोपकारिणी वा धीबुद्धिर्यस्य स तथा / सः-प्रसिद्धः चक्रवर्ती श्रीशान्तिनाथ इति यावत् / यथेष्टदानेन-इष्टमभिलषितमनतिक्रम्य यथेष्टम् , तस्य वस्तुनो, दानं वितरणम्, यथेष्टदानम् , तेन तथा / स्वसैन्यजन्ये-स्वस्य आत्मनः सैन्यम् स्वसैन्यम् , तेन जन्यमुत्पन्नम् , सम्पन्नमिति यावत् स्वसैन्यजन्यम् तस्मिंस्तथा / शिबिरे-सन्निवेशे, स्थिताविति यावत् / प्रपापदे-प्रपायाः पानीयशालिकायाः पदं स्थानम् प्रपापदम् तस्मिँस्तथा / कया-कीदृशा। अपि-सम्भावनायाम् अव्ययम् / रीत्या-प्रकारेण / दैन्यतः-दीनतातः / सखेदम्-खेदेन शोकापरपर्यायेण सहितं सखेदम् यथास्यात्तथा / लोहितेक्षणान्-लोहिते रक्ते ईक्षणे नयने येषां ते लोहितेक्षणास्तेषान्तथा / पथिकान्-पान्थान् / न-नहि / ऐक्षिष्ट-अपश्यत् / / 108 / / अलिखजा कुड्मलमुच्चशेखरं, निरीक्ष्य मेने ह्यमुनापि चक्रिणा / द्रुमेऽपि दानातिशयः फलोदय-श्रिये पुनः किं पुरुषे सचेतसि ? // 109 // अन्वयः-अमुना, पक्रिणा, अपि, अलिस्रजा, उच्चशेखरम्, कुङ्मलम्, निरीक्य, “द्रुमे, बपि, फलोदयश्रिये, दानातिशयः, (चेत् ) सचेतसि, पुरुषे, किं, पुनः", (इति) मेने // 19 // प्रधिः--ना-विप्रकृष्ठेन / चक्रिणा-तीर्थकृत्पञ्चमचक्रवर्तिना भगवता शान्तिनाथेनेति