________________ --आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां तृतीयः सर्गः [ 209 सम्पद्यस्वेति या / इति-इत्येवंप्रकारेण / जगत्त्रयोविभुः-त्रयोऽवयवा अस्या इति त्रयी, जगता भुवनानां त्रयी जगत्त्रयी, भुवनत्रयमित्यर्थः / तस्या विभुः प्रभुर्नायक इति यावत् , जगत्त्रयीविमुः / स:-प्रसिद्धः, भगवान् शान्तिनाथ इति यावत् / नणाम्-जनानाम् / विपत्त्राय-विपदो विपत्तेस्त्रायते रक्षतीति विपत्त्रम्, तस्मै तथा। निजातपत्राय-स्वीयच्छत्राय / प्रभाभरम्-प्रभायाः कान्तेर्भरोऽतिशयः प्रभाभरस्तन्तथा / ददौ-विततार, दत्तवानिति यावत् / स्वप्रभाया आधिक्यात् स्वोपरि धरणेन छत्राय प्रभादानं व्यदधादिति भावः // 105 / / कृपाणरत्न कृपणे कृपाधनं, पुनः पुनर्मूर्च्छ च तापमृच्छ च / द्विषे मिषेण स्वकराकरस्य य-दितीव नित्यं समुपादिशत् प्रभोः // 106 // अन्वयः-यत् , कृपणे, कृपाधनम् , प्रभोः, कृपाणरत्नम् , स्वकराकरस्य, मिषेण, द्विषे, पुनः पुनः, मूच्र्छ, च, तापम् , ऋच्छ, च, इतीव, नित्यम् , समुपादिशत् , इव // 106 // वृत्तिः-यत्-यस्माद्धेतोः / कुपणे-दीने / कृपाधनम्-कृपया दयैव धनमैश्वयं यस्य तत् तथा / कृपाविशिष्टमित्यर्थः / अत्र-“कृपाघनमिति" पाठः साधीयान् प्रतिभाति, तस्य च कृपामयमित्यर्थः, कृपायाश्चेतनवृतित्वाद्यद्यपि कृपाणरत्ने कृपामयत्वमप्रसिद्धं तथापि उपदेशकत्वेनोत्प्रेक्षणादुपदेशकस्य कृपामयत्वमपेक्षितमेवेति नासमुञ्जसमुत्प्रेक्षासाधकत्वेन कृपामयात्वारोपस्यावश्यकत्वादिति ध्येयम् / प्रभोः-विभोश्चक्रवर्तिनः शान्तिनाथस्येति यावत् / कपाणरत्नम्-कौक्षेयकश्रेष्ठम् / स्वकराकरस्यस्वस्य आत्मनः करः किरणः स्वकरः तस्य आकरः खानिः स्वकराकरस्तस्य तथा / मिषेण-व्याजेन / द्विषे शत्रवे / पुनः पुन:-मुहुर्मुहुः, वारंवारमिति यावत् / मूर्छ-मूर्छा प्राप्नुहि / च-पुनः / तापम-सन्तापम् / ऋच्छ-अधिगच्छ, प्राप्नुहीति यावत् / च-पादपूरणे / इतीव-इत्येवंप्रकारेणेव / नित्यम्-सर्वदा / सम्पादिशव-समुपदिदेश / इव-यथा // 106 // कृतं पदं वार्धकिरत्नयत्नतो, मृषाऽकरोद् भूरिकृतोपभोगदम् / इतीव पान्थं शपतः पिकान द्विजान्, क यासि हित्वा वनितानितान्तमुक् // 107 अन्वयः-हे पान्थ ! (त्वम्) पनितानितान्तमुक्, क्व, यासि 1, (इति) पान्थम्, शपतः, प, पिकान, (वा) दिजान् , भूरिकृतोपभोगदम् , वार्धकिरत्नयत्नतः, कृतम्, पदम्, (कतृ') मृषा, अकरोत् // 107 // ....पत्ति: है पान्य !-हे पथिक ! (त्वम्) वनितानितान्तमुक्-अत्यन्तं त्यक्तनितम्बिनीका,