________________ 208] बीजैननैवीयमहाकाव्ये श्रीशान्तिनाथचरित्रेवृत्तिः-समीरलोले-समीरैर्वायुभिः पवनैरिति यावद् लोलाश्चञ्चलाः समीरलोलास्तैस्तथा / सकुलै:-कुड्मलैः / चलोच्चकेतन:-चलानि चपलानि च उच्चकेतनानि चिह्नानि चलोचकेतनानि तैस्तथा समीरलोलमुकुलरूपोच्चकेतनत्वेन रूपणाद्रूपकालङ्कारः / ( उपलक्षिते ) महेन्द्रस्य-सुराधिपतेः / ध्वजेपताकायाम् ( इव, स्थिते, इति शेषः ) / समीपगे-निकटस्थे / च-पुनः / समुच्छ्रिते-विशाले / आम्रतरौ-सहकारवृक्षे / वियोगिना-प्रियतमाविप्रयुक्तेन, चमूचरकदम्बकेनेति यावत् / ईहितःवाञ्छितः / नप:-राजा, भगवाँश्चक्रीति यावत् / स्वलोकाय-स्वः स्वकीयश्चासौ लोकः प्रजा स्वलोकः स्वस्य आत्मनो वा लोकः स्वलोकस्तस्मै तथा / सुखाकरोत्-असुखयत् // 10 // वियत्युदोयाय जिनेशचक्रिणः, सदानुयानादिव चक्रकैतवात् / अनीतिनिष्ठाय नु शकबान्धवो, जनाय दित्सन्निव तर्जनीभियम् // 10 // अन्वयः-जिनेशचक्रिणः, चक्रकेतवात् , सदा, अनुयानात् , इव, चक्रवान्धवः, अनीतिनिष्ठाय, जनाय, तर्जनीभियम् , दित्सन, इव, वियति, उदीयाय // 104 // वृत्तिः-जिनेशचक्रिणः-जिनेशो जिनेश्वरो, शान्तिनाथ इति यावत् / एवं चक्री चक्रवर्ती जिशवको तस्य तथा / चकैतवात-तदाख्यास्त्रयाजात् / छ लसदस्य व्या जशब्दपर्याय नाया अतिप्रसिद्धिः। सदा-सर्वदा / अनुयानात्-अनुगमनात् / इव-यथा / चक्रवान्धवः-चक्राणां कोकानां बान्धवः स्वजनः विकासकारकत्वाचक्रवान्धवः सूर्यः, भगवान् दिवानाथ इति यावत् / अनीतिनिष्ठोयअनीतो अन्याये नयरहिते इति यावत् निष्ठा निहगं य य सोऽनोतिनिती तथा। अनुचितावारनिरतायेति यावत् / जनाय-लोकाय, प्रजायै इति यावत् / तर्जनीभयम्-तर्जन्यास्तदाख्याङ्गुलिवि. शेषाद् भीर्भयम् , तर्जनीभीस्ताम् तथा / दित्सन-दातुमिच्छन् / इव-यथा / वियति-अाकाशे / उदीयाय-उदयं प्राप्तवानित्यर्थः // 10 // दिने दिने त्वं तनुरेधि रेऽधिकं, मणे ! करस्पर्शनतो ममेति सः / निजातपत्राय जगत्त्रयोविभु-नृणां विपत्त्राय ददौ प्रभाभरम् // 105 // अन्वयः-रे मणे !, मम, करस्पर्शनतः, त्वम् , दिने दिने, अधिकम् , तनुः, एधि, इति जगत्रयीविभुः, सः, नृणाम् , विपत्त्राय, निजातपत्राय, प्रभाभरम् , ददौ // 10 // वृत्तिः–रे मणे !-अरे रत्न ! मम-मल्लक्षणस्य जनस्य / करस्पर्शनत:-करस्य हस्तस्य अंशोश्च स्पर्शनम् स्पर्शः करस्पर्शनम् तस्मात्तथा / त्वम्-तेजस्त्वेन कान्तिमत्त्वेन लोकप्रसिद्धोऽपि मणिः / दिने दिने-अनुदिनम् , दिनानुदिनमिति यावत् / अधिकम्-अत्यन्तम् / तनु:-कृशः / एधि-भव,