________________ -भाचार्यविजयामृतसूरीश्वरकृतायां विदिनोदिन्यां तृतीयः सर्गः 207 वृत्तिः-चलै: चञ्चलैः चलाचलैरिति यावत् / दलैः-पत्रैः। तोरणधोरणीम्-तोरणस्य बहिर्द्वारस्य धोरणी परम्परा तोरणधोरणी तान्तथा / पुन:-अथ च / फल-प्रसवैः। शर्मणेसुखाय कल्याणायेति यावत् / न्युञ्छनकर्म-फलादेः कणश आदानम् उन्छनम् , नितरामुन्छनम् न्युञ्छनम् तञ्च तत्कर्म न्युब्छनकर्म तत्तथा / सृजन्-विदधत् , कुर्वन्निति यावत् / वसुधातपत्रित:वसुधायाः पृथिव्या आतपत्रम् छत्रमिवाचरितो वसुधातपत्रितः / स्वदेशजन्मा-स्वदेशे निजमण्डले जन्मोत्पत्तिर्यस्य स स्वदेशजन्मा / रसालसाल:-रसाल आम्रलक्षणश्चासौ सालो वृक्षो रसालसालः / अमुना-अनेन, भगवता शान्तिनाथेनेति यावत् / समदृश्यत-समलक्ष्यत / अवलोकित इति यावत् // 101 / / जगर्ज गर्जेषु मणिर्मदोत्कटः, स्फुरद्विरेफारवरोषहुँकृतिः / स्पृशंश्च सत्तावयवैर्भुवं जय-दिशां गजानामिव साङ्गजश्रियाम् // 102 // अन्वयः-साङ्गजश्रियाम् , दिशाम् , गजानाम् , जयैः, सत्तावयवैः, भुवम् , स्पृशन् , इव, च, स्फुरद्विरेफारवरोषहुँकृतिः, मदोत्कटः, गर्जेषु, मणिः जगर्ज // 102 // वृत्तिः–साङ्गजश्रियाम्-अङ्गाच्छरीराज्जाता उत्पन्ना अङ्गजास्तेषां श्रीः शोभा अङ्गजश्रीस्तया सहिताः साङ्गजश्रियस्तेषान्तथा / दिशाम्-आशानाम् , तत्सम्बन्धिनामिति यावत् / गजानाम्मतङ्गजानाम् , हस्तिनामिति यावत् / जय-विजयैः। हेतुभिरित्यर्थः / सत्तावयवैः-सत्तायाः अवस्थितेरवयवा अंशाः सत्तावयवास्तैस्तथा / लाघवकलितावस्थितिभिरिति यावत् / भुवम्-पृथिवीम् / स्पृशन्-समाश्रयन् / इव-यथा / च-पुनः / स्फुरद्विरेफारवरोषहुंकृति:-स्फुरन्ती विलसन्ती द्विरेफारवरोषेण भ्रमरशब्दजनितक्रोधेन हुंकृतिः हुमित्याकारकः शब्दविशेषो यस्य स तथा / व्यधिकरणबहुव्रीहेरपि साध्याभाववदवृत्तित्वमितिपूर्वपक्षीयव्याप्तिलक्षणादाविव शिष्टैरभ्युपगमात् तत्करणं प्रकृतेऽप्यविरुद्धमिति द्रष्टव्यम् / मदोत्कटः-मदेन दानजलेन उत्कट उच्छितः मदोत्कटः / गर्जेषुगजन्तीति गर्जा हस्तिनस्तेषु तथा / मणिः-रत्नम् , श्रेष्ठ इति यावत् / जगर्ज-गर्जितवान् , अगजदितियावत् / / 102 / / समुच्छिते चामतरौ समीपगे, ध्वजे महेन्द्रस्य चलोचकेतनैः / समीरलोलैर्मुकुलैर्वियोगिने-हितः स्वलोकाय सुखाकरोद् नृपः // 103 // अन्वयः-समीरलोलैः, मुकुलः, चलोचकेतनः, (उपलक्षिते) महेन्द्रस्य, ध्वजे, (हव) समीपगे, प, समुच्छिते, आम्रतरौ, वियोगिना, ईहितः, नृपः, स्वलोकाय, सुखाकरोत् // 10 //