________________ 206 ] श्रीजननषधीयमहाकाव्ये श्रीशान्तिनापचरित्रे अन्वयः-नृपाज्ञया, आमन्त्रितकामिनीजने, तथा, मनस्विनाम् , पुरः, अन्वागमने, कश्चित् , अनास्थया, सूनकरप्रसारिणीम् , स्त्रियम् , श्रमेण, अनुनिनाय // 99 // / वृत्तिः-नृपाज्ञया-नृपस्य भगवतः शान्तिनाथस्य आजा निर्देशो नृपासा तया तथा, भगवच्छान्तिनाथानुशासनेनेति यावत् / आमन्त्रितकामिनोजने-कामिन्यो रमण्य एव जनो लोकः कामिनीजनः आमन्त्रितः आहूतश्चासौ कामिनोजनः आमंत्रित कामिनीजनस्तस्मिंस्तथा / तथा-किञ्च / मनस्विनाम्-मनीषिणाम् / पुरः-अग्रे / अन्वागमने-पश्चादागमने / कश्चित्-कश्चन जनः / अनास्थया-अधीरतया / सूनकरप्रसारिणीम्-सूनानि पुष्पाणीव करौ हस्तौ सूनकरौ तौ प्रसारय ति तच्छीलाः सूनकरप्रसारिणी तान्तथा / त्रियम्-वनिताम् / श्रमेण-परिश्रमेण / अनुनिनायअनुनीतवान् // 19 // चलन नृपादेशनिवेशपेशलः, पुरः स्वसेनान्वयतो नृपो गुणैः / स्वगेहमाप्यापि वियोगिनीं प्रियां, ददर्श दूनः स्थलपद्मिनी नलः // 10 // अन्वयः-नृपादेशनिवेशपेशलः, स्वसेनान्वयतः, पुरः, चलन् , गुणैः, (कृत्वा) नलः (इव) दूनः, नृपः, स्वगेहम् , आप्य, स्थलपद्मिनीम् , (इव) वियोगिनीम् , प्रियाम् , ददर्श // 10 // .. वृत्तिः-नृपादेशनिवेशपेशल:-नृपेषु सार्थवर्तिषु राजसु आदेश उपदेशः, निदेशो वा नृपादेशः, तस्य निवेशः स्थापनम् , विधानमिति यावत् / नृपादेशनिवेशस्तत्र पेशलः चतुरो नृपादेशनिवेशपेशलः / स्वसेनान्वयतः-स्वसेनया निजसैन्येन अन्वयः सम्बन्धः स्वसेनान्वयस्तस्मात् तथा / पुर:-अग्रतः / चलन्-गच्छन् / गुणैः-विनयसारल्यसत्यपरायणता-त्यागसत्त्वशौर्यादिभिः / (कृत्वा) नल:-प्रातःस्मरणीयत्वेन दमयन्तीपतित्वेन च प्रसिद्धः, स इव नलः, यद्वा-रलयोरभेदानरोऽर्जुनः कृष्णो वा, स इव प्रतापीत्यर्थः / अथ च दनः-सन्तप्तः / नृपः-राजा / स्वगेहम्-निजगृहम् , आत्मसदनमित्यर्थः / आप्य-सम्प्राप्य / स्थलपद्मिनीम्-स्थलकमलिनीम् / इवेति लुप्रोपमा / वियोगिनीम्प्रियतमविच्छेदवतीमित्यर्थः / प्रियाम-वल्लभाम् , हृदयेश्वरीमिति यावत् / अपि-सम्भावनायामव्ययम् / ददर्श-अवलोकयामास / दृष्टवानिति यावत् // 100 // रसालसालः समदृश्यताऽमुना, स्वदेशजन्मा वसुधातपत्रितः / सृजन दलैस्तोरणधोरणीं चलैः, फलैः पुनर्युञ्छनकर्म शर्मणे // 101 // अन्वयः-चलैः, दलैः, तोरणधोरणीम् , पुनः, फलैः, शमणे, न्युञ्छनकर्म, सृजन् , वसुधातपत्रितः, स्वदेशजन्मा, रसालसाला, अमुना, समदृश्यत // 11 //