________________ -प्राचार्य विजयामृतसूरीधरकृतायां विद्वदिनोदिन्यां तृतीयः सर्गः : [ 205 वृत्तिः-पिकात्-कोकिलात् / मटानाम्-योधानाम् , वीराणामिति यावत् / वचनानुवादिभिः-वचनानि भाषितानि अनुवदन्ति अनुकुर्वन्तीति वचनानुवादीनि तैस्तथा / “अजातेः शीले" 5 / 1 / 154 / इत्यनेन तच्छीले 'णिन्' प्रत्ययः / भृङ्गहङकृतैः-श्रृंगाणां भ्रमराणां हुकृतानि हुङ्कारा भृङ्गहुकृतानि तैस्तथा / कृत्वेतिशेषः / स्फुटम्-व्यक्तम् यथास्यात्तथा / शृण्वति-आकर्णयति / सतीतिशेषः / अनजन्य:-अजन्येनोत्पातेन रहितोऽनजन्यः / अध्वगः-अध्वानं पन्थानं मार्गमिति यावत् गच्छन्तीत्यध्वगः पथिकः / जन:-लोकः / चक्रिण:-चक्रवर्तिनः, शान्तिनाथस्येति यावत् / जयारबोद्घोषणम्-जयस्य विजयस्य आरवः शब्दो जयारवः, तस्य उद्घोषणम् विज्ञापनम् जयारवोद्घोषणम् / एव-अवधारणार्थकमव्ययम् / अमन्यत-अवाबुध्यत // 17 // स्वसैनिकानां नृपतिः स्वमानसे, दशामुदश्चत्करुणो वियोगिनाम् / निधाय चाज्ञापयदागर्म पुन-निजावरोधस्य परस्परेच्छया // 98 // अवन्यः-उदञ्चत्करुणः, नृपतिः, स्वमानसे, वियोगिनाम् , स्वसैनिकानाम् , दशाम् , निधाय, पुनः, च, परस्परेच्छया, निजावरोधस्य, आगमम् , आज्ञापयत् // 98 // वृत्तिः-उदश्चत्करुणः-उदश्चन्ती विलसन्ती उत्कर्षमापादयन्तीति यावत् , करुणा दया यस्य स उदश्चत्करुणः / नृपति-जनाधिनाथः / चक्री भगवान शान्तिनाथ इति यावत् / स्वमानसेस्वस्य आत्मनः स्वमात्मीयं वा मानसमन्तःकरणम् , हृदयमिति यावत् , स्वमानसम्, तस्मिंस्तथा / वियोगिनाम्-प्रियतमाविप्रयुक्तानां / स्वसैनिकानाम्-आत्मीयचमूचराणाम् / दशाम्-अवस्थाम् / निधाय-परिचिन्त्य / पुनः च-पुनः पुनः, अनेकधेति यावत् / परस्परेच्छया-अन्योन्याभिलाषेण / निजावरोधस्य-निजः स्वीयश्चासाववरोधस्तस्य तथा / षष्टयर्थः कर्मत्वम् , निजावरोधकर्मकमित्यर्थः / आगमम्-आगमनमागमनस्तन्तथा / अज्ञापयत-समादिशत् // 8 // नृपाज्ञयाऽऽमन्त्रितकामिनीजने, पुरस्तथान्वागमने मनस्विनाम् / अनास्थया सूनकरप्रसारिणी, स्त्रियं श्रमेणानुनिनाय कश्चन // 99 // * "पिकाद्वने शृण्वति भृङ्गहुकृतैर्दशामुदश्चत्करुणे वियोगिनाम् / " इति यथाश्रुतनैषधीये श्लोके "उदश्चत्करुणे" इति सप्तम्यन्तपाठस्योपलम्भादत्रापि तत्समस्यापूरणात्मकग्रन्थे यथाश्रुतसप्तम्यन्तपाठेनैव भवितव्यमिति कैश्चिदाशयेतेति चेदस्तु नामात्रापि 'उदश्चत्करुणे' इति सप्तम्यन्तपाठ एव, एवञ्च उदश्चन्तो विकासं प्राप्नुवन्तः करुणाः करुणसंज्ञका वृक्षा यस्मिंस्तत् उदश्चत्करुणं तस्मिंस्तथा इति वने विशेषेणतयैवेति /