________________ 204 ] भीवननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्र तेन तथा / अपि-सम्भावनायाम् / स्मरेण-कन्दर्पण / तज्जन:-सः सैनिकश्चासौ जनो लोकस्तज्जनः, सैन्यवर्ग इत्यर्थः / फलाढ्यपुष्पैः फलवृक्षप्रसवैराढ्यानि पूर्णानि फलाढ्यानि तानि च तानि पुष्पाणि कुसुमानि फलाढ्यपुष्पाणि तैस्तथा / बाणत्वमापन्नानां पुष्पाणां केवलत्वे (सकलसम्पत्तिसंवलितत्वाभावे) तादृशशक्तिर्न भवतीति भावः / यतः-यस्मात् / पुरा-पूर्वम् / “मधुश्च ते मन्मथसाहचर्या-दसावनुक्तोऽपि सहाय एव / समीरणो नोदयिता भवेति, व्यादिश्यते केन हुताशनस्य” इत्यादिना पुरन्दरप्रोत्साहितेन कामदेवेनेति शेषः / पुरारये-त्रिपुरविनाशिने / शङ्करायेति यावत् / (कवलेषु) शरेषुपुष्पात्मकबाणेषु / मुक्तेषु-प्रक्षिप्तेषु / क्रिया-कर्म / प्रयास इति यावत् / विफला-व्यर्था / लेमेप्रापे / समासादितेति यावत् / / 15 / / वने चरचारुचमूचराशुग-स्थले बभौ पुष्परजोवजः कचित् / हृदि ज्वलकाममहानलाषि-स्तदङ्गभस्मेव शरेषु सङ्गतम् // 96 // .. अन्वयः- वने, क्वचित् , चरचारुचमूचराशुगस्थले, पुष्परजोत्रजः, बी, हृदि, उमलत्काममहानलार्चिषः, शरेषु, सङ्गतम् , तदङ्गभस्म, इव // 16 // वृत्तिः-वने-कानने / क्वचित्-कुत्रापि / चरचारुचमूचगशुगस्थले-आशु शीघ्रं गच्छन्त्याशुगा बाणाः, चमूचराणां सैनिकानामाशुगाश्चमूचराशुगाः, चरन्तश्चञ्चलाश्च ते चारवः शोभनाश्चरचारवः, "शीतोष्णम्" इत्यादिवत् / यथाकथश्चिद् गुणप्रधानभावमभ्युपगम्य कर्मधारयः समासः, चरञ्चारवश्व ते चमूचराशुगाश्चरच्चारुचमूचराशुगास्तेषां स्थलं स्थानविशेषश्चरच्चारुचमूचराशुगस्थलम् तस्मिँस्तथा / पुष्परजोत्रजः-पुष्पाणां कुसुमानां रजांसि परागः, धूलय इति यावत् , पुष्परजांसि तेषां व्रजः समूहस्तथा / बभौ-शुशुभे / हृदये-अन्तःकरणे, मनसीति यावत् / ज्वलत्काममहानलार्चिष:-ज्वलन् दीप्यमानश्चासौ कामः कन्दर्पः ज्वलत्कामः स एव महानलो बृहदग्निः ज्वलत्काममहानलस्तस्य अर्चिज्वाला, ज्वलत्काममहानलार्चिस्तस्य तथा / शरेषु-बाणेषु / सङ्गतम्-संलग्नम् / तदङ्गभस्म-तस्य शिवस्य अङ्गम् शरीरम् तदङ्गम् / यद्वा तस्य शिवस्य अङ्गानि शरीरावयवास्तदङ्गानि तेषु लग्नम् तदङ्गलग्नम् तञ्च तद् भस्म भसितम् तदङ्गभस्म, "मयूरव्यंसकेत्यादयः" 3 / 1 / 116 // इत्यनेन शाकपार्थिवादेराकृतिगणत्वात् समासः / मध्यवर्तिनो लग्नपदस्य लोपश्च / इव-यथा // 16 // पिकाद् वने शृण्वति भृङ्गहुकृतैः, स्फुटं भटानां वचनानुवादिभिः / जयारवोद्घोषणमेव चक्रिणो, जनोऽनजन्यस्तदमन्यताध्वगः // 97 // अन्वयः—पिकात् , भटानाम् , वचनानुवादिभिः, मृङ्गहुकृतैः, स्फुटम् , शृण्वति, (सति) अनजन्यः, अध्यगः, जनः, चक्रिणः, जयारवोद्घोषणम् , एव, अमन्यत // 17 //