SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वहिनोदिन्यां तृतीयः सर्मः / [203 आगतो रागोऽनुरागो यस्मात् स तथा। सः-प्रसिद्धः / असौ-विप्रकृष्टः / जिन:-भगवानहन शान्तिनाथ इत्यर्थः / परागम्-किञ्जल्कम् / सुमनोरेणुमिति यावत् / आश्रयन्-सेवमानः / कुसुमेधुसम्भवम्-कुसुमानि पुष्पाणि इषवो बाणा यस्य स कुसुमेषुः कन्दर्पस्तस्य सम्भव उदयः प्रादुर्भाव इति यावत् / कुसुमेषुसम्भवस्तन्तथा / यद्वा कुसुमेषु पुष्पेषु सम्भवम्-उत्पन्नम् इति परागविशेषणम्। अमन्यत-अवाबुध्यत // 93 // कचित् सरोऽन्तर्जलकेलिकमणि, परागमन्धङ्करणं वियोगिनाम् / तदप्यभूद् राज्ञि सुवर्णवर्णित-तनूत्विषां नूनमनूनवृद्धये // 14 // अन्वयः–क्वचित् , सरोऽन्तः, परागम् , जलकेलिकर्मणि, वियोगिनाम् , अन्धकरणं, नूनम् , तत्, अपि, राज्ञि, सुवर्णवर्णिततत्विषाम् , अनूनवृद्धये, अभूत् // 94 // __ वृत्तिः–कचित-कुत्रापि / सरोऽन्त:-सरसः कासारस्य अन्तर्मध्यम् सरोऽन्तः / परागमकुसुमरेणुः, पुष्पधूलिरत्यर्थः। जलकेलिकर्मणि-जलकेलिर्जलक्रीडा सैव कर्म क्रिया जलकेलिकर्म तस्मिस्तथा / वियोगिनाम्-वियोगो विच्छेदोऽस्त्येषामिति वियोगिनस्तेषान्तथा / अन्धकरणम-नेत्रोपघातकम् / नूनम्-निश्चयेन / तत्-वियोगिनेत्रोपघातकत्वेन प्रसिद्धं परागम् / अपि-सम्भावनायाम् / राज्ञि-नृपतौ / चक्रिणि शान्तिनाथे इति यावत् / सुवर्णवर्णिततनूविषाम्-तन्वाः शरीरस्य त्विषः कान्तयस्तनूत्विषः, सुवर्ण काञ्चनम् तस्य वर्णम् रूपम् सुवर्गवर्गम् , तद्वदाचारिताः सुवर्णवर्णिताः, यद्वा-सुवर्णवर्ण सञ्जातमासामितिसुवर्णवर्णिताः, सुवर्णवर्णिताश्च तास्तनूत्विषः सुवर्गवर्णिततत्विष. स्तासान्तथा / अनूनवृद्धये-न ऊना होना अनूना सा चासौ वृद्धिरनूनवृद्धिस्तस्यै तथा / अभूतअभवत् / 'यदेव परागं वियोगिनामन्धङ्करणं तदेव भगवति शान्तिनाथेऽतिशयितवृद्धि करं जातमित्याश्चर्यमिति भावः // 14 // वनेचरेणापि वनेऽत्र पत्रिणि, फलाब्यपुष्पैस्तदघानि तजनः / स्मरेण मुक्तेषु पुरा पुरारये, शरेषु लेभे विफला क्रिया यतः // 95 // अन्वयः-अत्र, पत्रिणि, वने, वनेचरेण, अपि, स्मरेण, तज्जनः, फलाढ्यपुष्पैः, अघानि, यतः, पुरा, पुरारये, ( केवलेषु ) शरेषु, मुक्तेषु, क्रिया, विफला, लेभे // 15 // वृत्तिः-अत्र-अस्मिन् / पत्रिणि-पत्राणि, दलानि सन्त्यस्मिन्निति पत्रि तस्मिंस्तथा / दलान्विते इति यावत् / वने-कानने / बनेचरेण-वने कानने चरति मध्ये मार्ग गच्छतीति वनेचरः
SR No.004339
Book TitleShantinath Charitram
Original Sutra AuthorAmrutsuri
AuthorAbhaydevsuri
PublisherJain Sahitya Vardhak Sabha
Publication Year1965
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy