________________ 202] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे चम्पककोरकावली:-चम्पकस्य स्वनामप्रसिद्धपुष्पविशेषस्य कोरकाः कलिकाः चम्पककोरकाः तेषामावलयो राजयः, श्रेणय इति यावत् , चम्पककोरकावलयस्तास्तथा / व्यलोक्यत्-अद्राक्षीत् , अपश्यदिति यावत् / / 1 / / अहर्पतेर्दर्पभरात् प्रसर्पति, प्रभाभरे भूमिभुजां महोदये / / ददर्श ताराः पतनोन्मुखाः प्रगे, स-संवरारेबलिदीपिका इव // 92 // अन्वयः-अहर्पतेः, महोदये, ( सति ) दर्पभरात् , भूमिभुजाम् , प्रभाभरे, प्रसर्पति, ( सति ) यद्वा अहर्पतेः, प्रभाभरे, भूमिभृताम् , महोदये, प्रसर्पति, ( सति ) सः, संवरारेः, बलिदीपिकाः, इव, प्रगे, पतनोन्मुखाः, ताराः, ददर्श // 12 // वृचिः-अहर्पतेः-अहनो दिवसस्य पतिः स्वामी, प्रकाशकत्वात् अहर्पतिर्भगवान सूर्यः, तस्य तथा / “बाहर्पत्यादयः” 1 / 3 / 58 // इत्यनेन विसर्गता / महोदये-उदयात्मकमहोन्नतौ / (सति) दर्पभरात्-दर्पस्य गर्वस्य भरोऽतिशयो दर्पभरस्तस्मात् / भूमिभुजाम्-भूमिं पृथिवीं भुञ्जन्ति पालयन्ति इति भूमिभुजो राजानस्तेषान्तथा / प्रतिपक्षाणां नृपतिकदम्बकानामिति यावत् / प्रभाभरे-प्रभायास्तेजसो भरोऽतिशयः प्रभाभरस्तस्मिंस्तथा / प्रसर्पति-समुल्लसति / ( सति ) यद्वा अहर्पतेः-सूर्यस्य / प्रभाभरे-तेजोऽतिशये / भूमिभृताम्-पर्वतानाम् / महोदये-समुन्नतौ / प्रसर्पति-समुल्लसति / ( सति ) सः- प्रसिद्धः, भगवान् शतिनाथ इति यावत् / संवरारेः-कन्दर्पस्य / , बलिदीपिका:बल्यर्थमपहारार्थम् दीपिकाः प्रदीपाः, बलिदीपिकाः, तास्तथा / इव-यथा / प्रगे-प्रातः / पतनोन्मुखाःपतने पाने उन्मुखा उत्सुकास्तत्परा इति यावत् / पतनोमुखाः। तारा:-तारकाः, नक्षात्राणीति यावत् , ददर्श-अवलोकयाञ्चकार / दृष्टवानिति यावत् // 12 // अमन्यतासौ कुसुमेषु-सम्भवं, जिनोऽपरागः स परागमाश्रयन् / दिशां जयालोहितचन्दनेज्यया, कृतां रुचिं पद्मनिवासिपद्मया // 13 // अन्वय-दिशाम, जयात् , लोहितचन्दनेज्यया, पद्मनिवासिपद्मया, कृताम् , रुचिम् , (प्रति ) अपरागः, सः, असो, जिनः, परागम , आश्रयन् , कुसुमेषु-सम्भवम् , अमन्यत // 13 // वृत्तिः-दिशाम्-आशानाम् , दिशानामिति यावत् / जयात-विजयात् / लोहितचन्दनेज्यया-लोहितचन्दनेन रक्तचन्दनेन इज्या पूजा यस्याः सा लोहितचन्दनेज्या तया तथा / पद्मनिवासिपद्मया-पद्मे कमले निवसति तच्छीला पद्मनिवासिनी स चासौ पद्मा कमला लक्ष्मीरिति यावत् , पद्मनिवासिपमा तया तथा / कुताम्-विहिताम् / रुचिम्-अभिलाषम् / (प्रति) अपरागः