________________ -आचार्यविषयामृतसूरीश्वरकृतायां विहिनोदिन्यां तृतीयः सर्गः [201 दीपिका:-प्रदीपान् / स्वालयसम्मुखोत्सुकप्रयाणयोगात्-स्वस्य आत्मनः आलयो गृहम् , स्वालयः तत्र सम्मुखोऽभिमुखः स्वालयसम्मुखस्तत्रोत्सुकः उत्सुकः, स्वालयसम्मुखोत्सुकः, अत एव प्रयाणम् प्रस्थानम् स्वालयसम्मुखोत्सुकप्रयाणम् तेन योगः सम्बन्धः स्वालयसम्मुखोत्सुकप्रयाणयोगस्तस्मात्तथा / व्यधुः-अकार्षः, कृतवन्त इति यावत् // 89 // ' घटा गजानां मदसंकटैः कट-रपुण्यकर्माण्यलिकजलच्छलात् / निदर्शयन्ती बहुधागमोदित-प्रभञ्जनोन्मग्नवपुः सरस्यभूत् // 90 // अन्वयः-गजानाम् , घटा, मदसंकटः, अलिकजलच्छलात् , अपुण्य कर्माणि, निदर्शयन्ती, बहुधाममोदितप्रभञ्जनोन्मग्नवपुः, सरसी, अभूत् // 9 // वृत्तिः-गजानाम्-हस्तिनाम् / घटा-घटना / मदसङ्कटैः-मदो दानजलम् तेन सङ्कटाः सम्बाधाः व्याप्ता इति यावत् , मदसङ्कटास्तैस्तथा / कटैः-कपोलैः / उपलक्षितेत्यर्थः / अलिकजलच्छलात-अलयो भ्रमरा एव कजलमञ्जनम् अलिकज्जलम् तस्य छलम् व्याजोऽलिकज्जलच्छलम् तस्मात्तथा / अपुण्यकर्माणि-अपुण्यानि अपवित्राणि च तानि कर्माण्याचरणानि, अपुण्यकर्माणि तानि तथा / निदर्शयन्ती-अभिव्यञ्जयन्ती / बहुधागमोदित प्रभञ्जनोन्मग्नवपु:-बहुधाऽनेकवारमागम आगमनम् बहुधागमस्तेन उदिता उदयमधिगता बहुधागमोदितास्ते च ते प्रभञ्जना पवमानाः पवना इत्यर्थः, बहुधागमोदितप्रभञ्जनास्तत्र उन्मग्नं वपुः शरीरम् यस्याः सा तथा / सरसी-कासारः / अभूतअभवत् // 10 // सहेत न कापि स हेमपुष्पकः, कलङ्कपत मधुपोज्झितस्ततः। व्यलोकयच्चम्पककोरकावली-नृपः पथि कापि सुवर्णभास्वराः // 11 // अन्वयः- सः, हेमपुष्पकः, मधुपोज्झितः, (सन् ) क्वापि, कलङ्कपङ्कम् , न, सहेत, ततः, नृपः पथि, क्वापि, सुवर्णभास्वराः, चम्पककोरकावलीः, व्यलोकयत् // 91 // वृत्तिः-सः-प्रसिद्धः / हेमपुष्पक:-चम्पकपुष्पवृक्षः / मधुपोज्झितः-मधु पुष्परसं पिबन्तीति मधुपा भ्रमरास्तैरुज्झितस्त्यक्तो मधुपोज्झितः / (सन् ) कापि-कुत्रापि / कलङ्कपङ्कम-कलङ्कोऽपवादः पङ्कः कर्दम इवेति कलङ्कपङ्कस्तन्तथा / “उपमेयं व्याघ्राद्यैः साम्यानुक्तौ" 3 / 1 / 102 / / इत्यनेन उपमितसमासः / न-नहि / सहेत-मर्षेत् / ततः तस्माद्धेतोः / नृपः-नृन्-नरान् जनानिति यावत् पाति रक्षतीति नृपो राजा भगवाशातिनाथ इति यावत् / पथि-मार्गे / क्वापि-कुत्रापि / कस्मिँश्चित् स्थले इति यावत् / सुवर्णभास्वरा:-सुवर्ण काञ्चनमिव भास्वरा देदीप्यमानाः सुवर्णभास्वरास्तास्तथा।