________________ 200 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे रनुरागो यया सा भृशाऽकृशारूढरतिः / तदीयधर्मपत्नी-महिषीति यावत् / नृपेण-राज्ञा, भगवता शान्तिनाथेनेति यावत् / न्यपीयत-पपे, सादरमवलोकिता / / 8 / / अदम्भसंरम्भविमुक्तमानसा, न सा प्रियं प्राप्य न विप्रिये प्रिया / नृपेण सर्वा प्रमदा मदालसा, दरादराभ्यां दरकम्पिनी पपे // 8 // अन्वयः-नृपेण, अदम्भसंरम्भविमुक्तमानसा, प्रियम्, प्राप्य, विप्रिये, न, प्रिया, न, दरादराभ्याम् , दरकम्पिनी, मदालसा, ता, सर्वा, प्रमदा, पपे // 8 // वृत्ति-नृपेण-राज्ञा, भगवता शान्तिनाथेनेति यावत् / अदम्भसंरम्भविमुक्तमानसा-दम्भनं दम्भो व्याजः, न दम्भो यस्मिन् कर्मणि तददम्भं यथा स्यात्तथा / संरम्भेण क्रोधेन विमुक्तं परित्यक्तं मानसमन्तःकरणं यस्याः सा तथा / “इदं किलाव्याजमनोहरं वपुः” इत्यादिवत् क्रियाविशेषणवाचकेन पदेन समासोऽङ्गीकरणीयः / प्रियम्-अभीप्सितम् , वल्लभं वा / प्राप्य-समधिगत्य / विप्रियेव्यलीके, प्रियापराधेऽपीति यावत् / नप्रिया-अप्रिया, अमनोज्ञेति यावत् / न-नहि / अपि तु प्रियेवेति भावः / दरादराभ्याम्-दरो भयम् अदरो भयाभावः दरश्चादरश्च दरादरौ ताभ्यान्तथा / भयेन भयाभावेन ( हर्षेण ) चेत्येवमुभाभ्यामुपलक्षिता / दरकम्पिनी-दरमीपत्कम्पते वेपते तच्छीला दरकम्पिनी / “अजातेः शीले" 5 / 1 / 154 // इत्यनेन तच्छीले ‘णिन्' प्रत्ययः / मदालसा-मदेन हर्षेण अलसा चेतसः क्रियानुन्मुखताऽऽलस्यं तद्वतो मदालसा / "अतितृप्तिगर्भव्याधिश्रमादिजन्या चेतसः क्रियानुन्मुखताऽऽलस्य ‘मिति रसगङ्गाधरे पण्डितराजजगन्नाथः / सा-रूपसौन्दर्यलावण्यादिना भुवनत्रयप्रसिद्धा / सर्वा-निखिला / प्रमदा-नितम्बिनी, ललनेति यावत् / पपे-सादरमवलुलोके, ददृशे इति यावत् // 8 // विचिन्वतीः पान्थपतङ्गहिंसने-विना शुभान्यभ्रगताः प्रकाशिकाः। निशि व्यधुः स्वालयसंमुखोत्सुक-प्रयाणयोगादपि दीपिका भटाः // 89 // अन्वयः-भटाः पान्थपतङ्गहिंसने, विना, शुभानि, विचिन्वतीः, अभ्रगताः, निशि, प्रकाशिकाः, अपि, दीपिकाः, स्वालयसम्मुखोत्सुकप्रयाणयोगात् , व्यधुः // 89 // वृत्तिः-भटा:-योधाः / पान्थपतङ्गहिंसनैः पन्थानं नित्यं गच्छन्तीति पान्थाः पथिकाः, त एव पतङ्गाः शलभाः पान्थपतङ्गास्तेषां हिंसनानि मारणानि पान्थपतङ्गहिंसनानि तैस्तथा / विनाअन्तरेण / शुभानि-कल्याणानि / विचिन्वती:-एकत्र कुर्वन्तीः, अर्जयन्तीरितियावत् / अभ्रगता:आकाशगताः / निशि-रात्रौ / प्रकाशिकाः-बोधिकाः। वस्तूनि इति यावत्। अपि-सम्भावनायाम् /