________________ -आचार्य विजयामृतसूरीश्वर कृतायां विद्वद्विनोदिन्यां तृतीयः सर्गः [ 199 जिनेशपादा:-जिनेशस्य अर्हच्छ्रेष्ठस्य भगवतः शान्तिनाथस्येति यावत् पादाश्चरणा जिनेशपादाः, वस्तुतस्तु “पादा भट्टारको देवः प्रयोज्यः पूज्यनामतः" / 2 / 250 / / इत्यभिधानचिन्तामण्युक्तप्रकारेण जिनपादा इत्यस्य जिनश्रेष्ठाः इत्यर्थः, अर्हद्भट्टारका इति यावत् / चुम्बिता:-चुम्बते वक्त्रसंयोगानुकूलव्यापारार्थकत्वेऽपि आलिङ्गनार्थ लक्षणया आलिङ्गिता इत्यर्थः // 85 // प्रिया तदीया जननी नृपेण सा, करम्धिताङ्गी मकरन्दसीकरैः / समालिलिङ्गे शुचिवासरे रसं, प्रकाशयन्ती गिरिजेव तापमुक् // 86 // अन्वयः-रसम् , प्रकाशयन्ती, तापमुक् , गिरिजा, इव, मकरन्दसीकर :, करम्चिताङ्गी, सा, तदीया, प्रिया, जननी, शुचिवासरे, समालिलिङ्गे // 86 // वृत्तिः–रसम्-अनुरागम् / प्रकाशयन्ती-प्रकटयन्ती, अभिव्यञ्जयन्तीति यावत् / तापमुकतापं सन्तापं मुञ्चति अन्तर्भावितणिगर्थत्वान्मोचयतीति तापमुक् , सन्तापहारिणीत्यर्थः / गिरिजागिरेः पर्वताजाता गिरिजा पार्वती अन्या वा काचन महादेवी / इव-यथा / मकरन्दसीकरैःपुष्परसकणैः / करम्बिताङ्गी-करम्बितं व्याप्तमङ्गं शरीरम् यस्या सा तथा / सा-प्रसिद्धा / तदीयातस्य भगवतः शान्तिनाथस्य इयं तदीया / प्रिया- मनोज्ञा समधिकस्नेहशालिनीति यावत् / जननीप्रसूः, अचिरा मातेति यावत् / शुचिवासरे-शुचिः शुद्धश्चासौ वासरो दिवसः, दिनमिति यावत् / शुचिवासरस्तस्मिंस्तथा / समालिलिङ्गे-समाश्लिष्टा सम्यगालिङ्गितेति यावत् // 86 / / लतेव तन्वी विभुविप्रयोगतः, प्रतापमेवादिशती नवोदयम् / दृशा नृपेण स्मितशोभिकुड्मला, भृशाऽकृशारूढ़रतियपीयत // 87 // अन्वयः-विभुविप्रयोगतः, लता, इव, तन्वी, नवोदयम् , प्रतापम् , एव, आदिशती, स्मितशोभिकुड्मला, भृशाऽवशारूढरतिः, नृपेण, दृशा, अपीयत // 87 // वृत्तिः-विभुविप्रयोगतः-विभोस्त्रिभुवननायकस्य तेन वा विमुविप्रयोगो वियोगः, विच्छेद इति यावत् विभुविप्रयोगस्तस्मात्तथा / लता-वल्ली / इव-यथा / तन्वी-कृशा, कृशाङ्गीति यावत् / नवोदयम्-नवो नवीन उदयोऽभ्युदयः प्रकाशो वा यस्य स नवोदयस्तन्तथा / प्रतापम्-प्रभावम् , तेज इति यावत् / एव-अवधारणार्थकमव्ययम् / आदिशती-प्रतिपादयन्ती, अभिव्यञ्जयन्तीति यावत् / स्मितशोभिकुड़मला-स्मितेन ईषद्धासेन शोभते तच्छील स्मितशोभी, तादृशः कुड्मलो मुकुलो यस्याः सा स्मितशोभिकुडूमला / भृशाकशारूढरति:-भृशमतिशयेन अकृशं यथास्यात्तथा आरूढा सम्प्राप्ता रति