________________ 198 ] श्रीजननंषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे कचित् पुनः शाल्मलिशालमलिनि, शिलोच्चये राजपथावरोधिनि / ददर्श भूपः सुमनो निवन्धन, वियोगिहृत्खण्डिनि कालखण्डजम् // 84 // अन्वयः-पुनः, शाल्मलिशालमालिनि, राजपथावरोधिनि, वियोगिहृत्खंडिनि, क्वचित् , शिलोच्चये, भूपः, सुमनोनिबन्धनम् , कालखण्डजम् , ददर्श // 84 // वृत्तिः-पुन:-किश्च / शाल्मलिशालमालिनि-शाल्मलिशालस्य तदाख्यवृक्षस्य माला पक्तिः श्रेणीति यावत् / शाल्मलिशालमाला साऽस्यातीति शाल्मलिशालमाली तस्मिंस्तथा। राजपथावरोधिनिराज्ञो नरपतेः पन्था मार्गो राजपथस्तमवरुणद्धि तच्छीलो राजपथावरोधी, तस्मिंस्तथेति / वियोगिहृत्खण्डिनि-वियोगिनाम् विप्रयुक्तानां हृत् अन्तःकरणम् वियोगिहृत् तत् खण्डयति भिनत्ति कामज्वालासन्तप्तं करोतीति यावत् वियोगिहृत्खण्डी तस्मिंस्तथा। क्वचित-कुत्रचित् / शिलोच्चयेशिलानां पाषाणानामुच्चयोऽत्रेति शिलोच्चयः पर्वतस्तस्मिंस्तथा / भूपः-भुवं पृथिवीं पाति रक्षतीति भूपो राजा, भगवाशान्तिनाथ इति यावत् / कालखण्ड जम्-दक्षिणपार्श्वस्थं कृष्णं मासं कालखण्डम् तस्माजातमुत्पन्नम् कालखण्डजम् / सुमनोंनिबन्धनम्-सुमनसाम पुष्पाणाम , निबन्धनम-निःशेषेण बन्धनमत्रेति सुमनोनिबन्धनम् , वृन्तमिति यावत्। ददर्श-अवलोकितवान , अपश्यदिति यावत् / / 8 4 / / नबालतागन्धवहेन चुम्बिता, जिनेशपादा युवराजताभृता / समीयुषा स्वागभुवा प्रणेमुषा, गजाश्ववृन्देन समं समङ्गलम् // 85 // अन्वयः-गजाश्ववृन्देन, समम् , समङ्गलम्, नबालतागन्धवहेन, समीयुषा, प्रणेमुषा, युवराजतामृता, स्वाङ्गभुवा, जिनेशपादाः, चुम्बिताः // 85 // वृत्तिः-गजाश्ववृन्देन-गजा हस्तिनश्च अश्वाः तुरङ्गमाश्च गजाश्वम् प्राण्यङ्गत्वादेकवद्भावः, तस्य वृन्दम् कदम्बकम् समूह इति यावत् गजाश्ववृन्दम् तेन तथा / समम्-सह / समङ्गलम्-मङ्गलेन कल्याणेन सर्वार्थरक्षणेन वा सहितं समङ्गलम् यथास्यात्तथा / नयालतागन्धवहेन-बालस्य भावो बालता, कौमार्यम् कैशोयं वा तस्या गन्धो लेशो बालतागन्धः, वहति धारयतीति वहः, "अच्" 5 / 1 / 46 / / इत्यनेन अचप्रत्ययः, बालतागन्धस्य वहो बालतागन्धवहः, न बालतागन्धवहो नबालतागन्धवहः, नैकधेत्यादिवत्समासो निषेधार्थकेन नशब्देन तेन तथा, यूनेत्यर्थः / समीयुषा-सामीप्यमधिगतवता / प्रणेमुषा-अधिगतप्रणामभावेन, प्रणतवतेतियावत् / युवराजताभृता-युवा तरुणो राजा नृपतिर्युवराजः तस्य भावो युवराजता तां बिभर्ति धारयतीति युवराजभृत् तेन तथा / स्वाङ्गभुवा. स्वस्य आत्मनोऽङ्गम् शरीरम् स्वाङ्गम् तस्माद् भवत्युत्पद्यते इति स्वाङ्गभूस्तेन तथा, पुत्रेणेति यावत् /