________________ -आचार्य विजयामृतसूरीश्वरकृतायां विद्विनोदिन्वां तृतीयः सर्गः [ 197 वृत्तिः-वियुक्ततापत्त्रधनैः-विपूर्वकायुज्धातो वे क्तः प्रत्ययः वियुक्तम् विरहः, वियोग इति यावत्, तस्य तापो सन्तापो वियुक्ततापः, वियुक्ताद्वा तापो वियुक्ततापस्तस्मात् त्रायन्ते रक्षन्तीति वियुक्ततापत्राणि तानि च तानि धनानि तैस्तथा / यद्वा-वियुक्तस्य विरहिणो भावो वियुक्तता सा चासौ सैव वा आपत् विपत् विपत्तिरिति यावत वियुक्ततापत् तस्यास्त्रायन्ते इति वियुक्तता पत्त्राणि तानि च तानि नान्येव वा धनानि वियुक्ततापत्त्रधनानि तैस्तथा। विना-अन्तरेण / अशनेभोजने / ( सत्यपि ) पलाशनात् मांसभक्षणात् / विरहिजनानामिति शेषः / स्फुटम्-प्रकटं यथा स्यात्तथा / पलाशे-पलं मांसमश्नातीति मांसभक्षणादन्वर्थसंज्ञके, पलाशवृक्षे / अध्वजुषाम्-अध्वानं मार्ग जुषन्ते सेवन्ते इति अध्वजुषस्तेषान्तथा / मुखे-वदने / अपि-सम्भावनायाम् / अध्वनि-मार्गे। पातकचिन्तया-पापानुध्यानेन / उचिता-युक्ता / मालिन्यदशा-मलिनत्वावस्था / अनेन-चक्रवर्तिना भगवता शान्तिनाथेनेत्यर्थः। हि-निश्चयेन / अमन्यत-अवाबुध्यत // 82 // स किंशुकः किं शुकवक्त्रतुल्यता, धरे(द)विपत्रीभवनादिति स्मरन् / स वृन्तमालोकत खण्डमन्वितं, विशङ्कमुद्यत्सुमनः सुवर्णरुक् // 3 // अन्वयः-सः, किंशुकः, (द्वि)विपत्रीभवनात् , किम् , शुकवक्त्रतल्यताम् , धरेत् , इति, स्मरन् , सः, विशङ्कम् , उद्यत्सुमनः, सुवर्णरुक, अन्वितम् , खण्डम् , वृन्तम् , आलोकत // 8 // वृत्तिः-सः-प्रसिद्धः / किंशुकः-पलाशः / विपत्रीभवनात-विगतश्च तत्पत्रम् विपत्रम् अविपत्रम् अविपत्रस्य विपत्रस्य भवनम् सम्पत्तिर्विपत्रीभवनम् तस्मात्तथा। (द्विपत्रीभवनात् द्वे च ते पत्रे दले द्विपत्रे, तयोपित्रयोः, अद्विपत्रयोर्द्विपत्रयोर्भावः सम्पत्तिपित्रीमवनम् , तस्मात्तथा / ) अभूततद्भावार्थ 'च्विः' प्रत्ययः / किम्-वितर्केऽव्ययम् / शुकवक्त्रतुल्यताम्-शुकस्य कीरस्य, रक्ततुण्डस्य प्रसिद्धस्य पक्षिण इति यावत् वक्त्रम् मुखम् शुकवक्त्रम् तस्य तुल्यता शादृश्यम् शुकवक्त्रतुल्यता तान्तथा / धरेत-आश्रयेत् , गृह्णीयादिति यावत् / इति-एबंप्रकारेण / स्मरन्-चिन्तयन् स:प्रसिद्धः, भगवाञ्शान्तिनाथ इति यावत् / विशङ्कम्-विगता शङ्का, किमनिष्टं मे भविष्यतीत्यकारश्चित्तवृत्तिविशेषः, यस्मिन् कर्मणि तद्विशङ्कम् यथास्यात्तथा, निःशङ्कमिति यावत् / उद्यत्सुमनः-उद्यन्त्यो विकसन्त्यो सुमनसः सुष्ठु मन्यते पूज्यते आभिरिति सुमनसः, स्त्रीलिङ्गा वा बहुवचनान्तश्च “विहायस्सुमनस्” ( उणा. 976 ) इत्यसि निपात्यते, इति सुमनसः कुसुम नि यस्मिंस्तत्तथा / सुवर्णरुकसुवर्णस्य काश्चनस्य रुक् कान्तिरिव रुक् कान्तिर्यस्य तत्तथा। अन्वितम्-सम्बद्धम् / खण्डम्-खण्डमिव खण्डम् अंशम् / वृन्तम्-वृणोतीति वृन्तम् प्रसवबन्धनम् / यत् कात्यः-"बन्धनं पुष्पफलयावृन्तमाहुः" आलोकत-समैक्षिष्ट / / 83 //