________________ 4] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे अन्वयः-इह, निपीततत्कथाः, श्रुतस्य, यथा ( आद्रियन्ते ) तथा बुधाः; सुधाम् , अपि, न आद्रियन्ते, यत्र भवे तत्कथाप्रथा, न, भवेत् , तत् , सुधाभुजाम् , जन्म, मनःप्रियम् , न // 3 // वृत्तिः-इह-संसारेऽस्मिन् / निपीततत्कथा:-निपीता निःशेषेणाकर्णिताः, तत्कथाः-तदीयवाक्यानि यैस्ते निपीततत्कथाः, श्रततत्कथाः सभ्यजना इत्यर्थः / श्रतस्य-समवसरणादावाकर्णितस्य आगमश्रुतस्य इति यावत् / यथा-येन प्रकारेण / (आद्रियन्ते-संस्मरन्ति) तथा-तेन प्रकारेण / बुधाः-पण्डिताः "बुधः सौम्ये च पण्डिते" इति मेदिनी / सधाम्-अमृतम् / “अन्धः पीयूषममृतं सुधा" 2-3 इत्यभिधानचिन्तामणिः / अपि-खलु / न-नहि / आद्रियन्ते-आदरभाजनीक्रियन्ते / यत्र-यस्मिन् / 'सप्तम्याः' 7 / 2 / 94 / इति त्रपप्रत्ययः / भवे-जन्मनि / तत्कथाप्रथा-तस्य भगवतः शान्तिनाथस्य कथाप्रथा-कथाप्रचारः तत्कथाप्रथा / न-नहि / भवेत्-जायेत / तत्-तादृशम्, तदीयकथाप्रथारहितमिति यावत् / सुधाभुजाम्-सुधाममृतं भुञ्जते. भक्षयन्तीति सुधाभुजो देवास्तेषां तथा / जन्म-जनिः, उत्पत्तिरिति यावद / मनःप्रियम्-मनःप्रमोदजनकम् / न-नैव / “सर्व वाक्यं सावधारणमिति न्यायात विदुषामिति शेषः / / 3 / / यदीयपादाम्बुजभक्तिनिर्भरात, प्रभावतस्तुल्यतया प्रभावतः / नलः सितच्छत्रितकीर्तिमण्डलः, क्षमापतिः प्राप यशःप्रशस्यताम् // 4 // : अन्वयः-यदीयपादाम्बुजभक्तिनिर्भररात्, प्रभावतः, प्रभावतः, तुल्यतया, क्षमापतिः, नलः सितच्छत्रितकीर्तिमण्डलः, सन् , यशःप्रशस्यताम् प्राप // 4 // वृत्तिः-यदीयपादाम्बुजमक्तिनिर्भरात्-यस्य भगवतः शान्तिनाथस्य इमौ यदीयौ, तौ च पादौ चरणौ, यदीयपादौ, तावम्बुजे इवेति यदीयपादाम्बुजे, तयोर्भक्तिः सेवा यदीयपादाम्बुजभक्तिस्तया नर्भरः समधिकः यदीयपादाम्बुजभक्तिनिर्भरस्तस्मात्तथा / प्रभावतः-प्रतापतः सामर्थ्यविशेषादिति यावत् / प्रभावतःप्रभाः किरणानि सन्त्यस्येति प्रभावान् तस्य तथा सूर्यस्येत्यर्थः "रुग्विरोककिरणविषि स्विषः / भाः प्रभा वसुगभस्ति भानवो भा" 2 14 // इत्यमिधानचिन्तामणिः / तुल्यतया-सदृशतया समानतयेति यापत् / क्षमापति:-क्षमायाः पृथिव्याः पतिः स्वामी क्षमापतिः "भूर्भूमिः पृथिवी पृथ्वी......क्षितिः क्षोणी क्षमाऽनन्ता" 4 / 1 / 2 इत्यभिधानचिन्तामणिः / नल:-स्वनामप्रसिद्धभूपतिः पुण्यश्लोक इति, प्रसिद्ध इति यावत् / तथाहि-"कर्कोटकस्य नागस्य दमयन्त्या नलस्य च / ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम्' इति / सितच्छत्रितकीर्तिमण्डल:-सितं श्वेतञ्च तच्छत्रमातपवारणं सितच्छत्रम्, तद्वदाचरितमिति सितच्छत्रितम्, सितच्छत्रितं कीर्तिमण्डलं यशःसमूहो यस्य स सितच्छत्रितकीतिमण्डल: "श्वेतः श्येतः सितः शुक्लो हरिण विशदः शुचिः” 6 / 28 // "छत्रमातपवारणम्" 3 / 381 / / इत्युभयत्राभिधानचिन्तामणिः ( सन् )