________________ -आचार्यक्जियामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां प्रथमः सर्गः [ 3 इत्यभिधानचिन्तामणिः / अथवा श्रियाम् अभिव्यक्तम्-शुद्धम् मन उज्ज्वलम् , श्रियां धवलत्वम् पवित्रत्वाद, अनुरक्तता चानुरागः, प्रणय इति यावत्, स च रक्तः लोहित इति यावत् / मनोऽनुरागयोः शुक्लत्वरक्तत्वे च साहित्यदर्पणोक्तदिशाऽवसेये / एवञ्च सितपीतयोरेक्यात् पीतत्वमपि सूचितम् , वप्रत्रये रूप्यरै-रत्नमये वर्णत्रयस्योचितत्वं स्पष्टमेव / श्रियामिति बहुत्वं जिने सर्वज्ञत्वेन सर्वश्रीणामनुरागसूचकम् / ज्वलत्प्रतापावलिकीर्तिमण्डल:-कीर्तेर्यशसः मण्डलम्-समूहः कोर्तिमण्डलम् , प्रतापानाम् तेजसाम् प्रभावाणामिति यावत्, आवलिः-श्रेणी प्रतापावलिः, ज्वलन्ती-प्रकाशमाना चासौ प्रतापावलिः ज्वलत्प्रतापावलिः, ज्वलत्प्रतापावलिः कीर्तिमण्डलं यस्य स ज्वलत्प्रतापावलिकीर्तिमडलः / 'यत्कोशदण्डजं तेजः स प्रभावः प्रतापवत्' 3-404 / 'राजिलेखा ततिर्वीथीमालाल्यावलिपङक्तयः / धोरणी श्रेणी' 6-59 / 'समूहश्चयः कूटं मण्डलचक्रवाकपटलस्तोमाः' 6-47 / इति त्रिष्वप्यभिधानचिन्तामणिः / सः-सर्वज्ञत्वेन प्रसिद्धः / जगत्त्रयीविभुः-त्रयोऽवयवा अस्या इति त्रयी, जगताम्-भुवनानाम् त्रयी-जगत्त्रयी, तत्र विभुः भर्ता, जगत्त्रयीविभुः अर्हन्निति यावत् / तया-श्रिया / बमासे-दिदीपे, शुशुभइति यावत् // 11 // ( अत्र हेतूप्रेक्षाऽलङ्कारः / वृत्तं वंशस्थम् / ) निपीय यस्य क्षितिरक्षिणः कथाः, सुराः सुराज्यादिसुखं बहिर्मुखम् / प्रपेदिरेऽन्तःस्थिरतन्मयाशयाः, सदा सदानन्दभृतः प्रशंसया // 2 // अन्वयः—क्षितिरक्षिणः, यस्य; कथाः, निपीय, अन्तःस्थिरतन्मयाशयाः, सुराः, प्रशंसया, सदा, सदानन्दभृतः, सुराज्यादिसुखम् , बहिर्मुखम् , प्रपेदिरे // 2 // वृत्तिः क्षितिरक्षिण:-क्षितिं पृथिवीं रक्षति पालयतीति क्षितिरक्षी 'अजातेः शीले' 5 / 1 / 154 // इत्यनेन णिन् प्रत्ययः, तस्य तथा पृथिवीपालकस्येति यावत् / यस्य-भगवतः शान्तिनाथस्य / कथा:-गोष्टीः, ऐहिकामुष्मिकप्रत्यूहव्यूहोपशामकमोक्षादिजनकोपदेशवाक्यानीति यावत् / निपीय-सादरं सम्यगाकर्ण्य / अन्तःस्थिरतन्मयाशया:-अन्तः-अन्तःकरणे हृदये इति यावत् / स्थिरः-दृढसंस्कारसंस्कारितः / तन्मयःकथाविषयकः, आशयोऽभिप्रायविशेषो येषान्ते तथाः। सुराः-इन्द्रादिप्रमुखा देवाः / प्रशंसया-तदीयशौर्यवीर्यादाऱ्यादिवर्णनेन / सदा-सर्वदेव “सर्व वाक्यं सावधारणम् भवतीति" नियमाव / सदानन्दभृत:सन् समीचीनश्चासावानन्दो हर्षः सदानन्दस्तं बिभ्रति धारयन्तीति सदानन्दभृतः / ( सन्तः ) सुराज्यादिसखम्-हस्त्यश्वरथपादातिचतुरङ्गबलान्वितसौराज्यादिनिताऽऽनन्दम् / बहिर्मुखम्-मुखादाननात् बहिःबाझम् बहिर्मुखम् / 'पर्यापाबहिरचपञ्चम्याः' 1 / 3 / 32 / इत्यव्ययीभावः / सातिशयप्रयोजनाभाववत्त्वेनोपेक्षणीयमित्यर्थः / प्रपेदिरे-प्राप्तवन्तः, ज्ञातवन्त इति यावत् // 2 // यथा श्रुतस्येह निपीततत्कथास्तथाऽऽद्रियन्ते न बुधाः सुधामपि / सुधाभुजां जन्म न तन्मनःप्रियं, भवेद् भवे यत्र न तत्कथाप्रथा // 3 //