________________ श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे यदीयचिदर्शनमात्रसंभयान्मृगास्त्यजन्तीह गतिं स्वपाशवीम् / नरो न रोगाश्चितचित्तविप्लवाः, श्रिये स भूयाचरमोऽहतां सताम् // 5 // ददातु मङ्गं गणभृत् / स गौतमः, क्षमीश्वरो नेमिगुरूत्तमः पुनः / सरस्वती देवनदीव पावना, स वाचको मेघगणी च मेघवत् // 6 // चरित्रमत्रारचि येन नैषधीयपादपूर्तिक्रमभङ्गिभाजनम् / विधीयते तद्विवृत्तिविवेकिनां, विवेचनायायमृतेन सूरिणा // 7 // काव्यमिदं महाकाव्य, विदुषां सद्विनोददम् / वृत्या 'विद्वद्विनोदिन्या' भूयाद्यो लसद्रसम् // 8 // अथ तत्रभवतां साहित्यादिविविधवाइयविशारदानां समुपासितशारदानां शारदशशाङ्कवर्णानां सुवर्णसवर्णवर्णाङ्कनकुशलानामुत्तमवर्णाविर्भावानां श्रीमता महोपाध्यायानां मेघविजर्याजद्गणिवर्याणां सहृदयचेतश्चमत्कृतिसञ्जननं नयनाञ्जनमिव नैषधीयपादपूर्तिरूपं श्रीशान्तिनाथचरित्रमिदं पुरोवर्ति वरीवति / यकिल प्रसिद्धिं गतेष्वनेकेष्वपि शान्तिनाथमहाकाव्येषु सत्स्वपि सचेतसां विगलितवेद्यान्तरानन्दातिशयाधिगतये निबद्धं कामपि नैसर्गिकी मनोहारितामावहदिव दृश्यते / पादपूर्त्यादिबन्धपारवश्येन रसमयभावनासन्तानान्दोलनतः कचिव रसभङ्गकरीमभितः समापतन्ती लिष्टतां निसर्गसुन्दरेण चक्रिणो धर्मचक्रिणश्च श्रीशान्तिनाथस्य चरित्रेणैव सचेता दूरीकरिष्यतीति चेतसि समवधार्य, कार्यश्चेदमसामान्यमिति मत्वा शिष्टाचारपरम्पराप्राप्तामन्तरायविघटिकां परमात्मनः स्तुतिं प्रारभन्ते श्रियामिति श्रियामभिव्यक्तमनोऽनुरक्तता, विशालसालत्रितयश्रिया स्फुटा / तया बभासे स जगत्त्रयोविभु-र्बलत्प्रतापावलिकीर्तिमण्डलः // 1 // अन्वयः-( यस्मिन् ) विशालसालत्रितयश्रिया, श्रियाम् , अभिव्यक्तमनोऽनुरकरा, स्फुटा, ज्वलत्मतापावलिकीर्तिमण्डलः, सः, जगत्त्रयीविभुः, तया, बभासे // 1 // . वृत्तिः-( यस्मिन् भगवति-शान्तिनाथे ) विशालसालत्रितयषिया-त्रयोऽवयवा अन्येति त्रितयम्, विशालो-विस्तीर्णश्चासौ सालः-प्राकार:-विशालशालः, तस्य त्रितयम् विशालसालत्रितयम् / 'विशालं तु विशङ्कटम् / स्फारं वरिष्ठं विस्तीर्णम्', 6-65+66 / 'प्राकारो वरणः साले' 4-46 / इत्युभयत्राभिधानचिन्तामणिः / तस्य श्री:-शोभा विशालसालत्रितयश्रीस्तया तथा, 'शोभासम्पत्तिपमासु लक्ष्मीः श्रीरिव कथ्यते' इति यादवः / श्रियाम्-लक्ष्म्याम् / अभिव्यक्तमनोऽनुरक्तता-अनुरक्तता, अनुरागः, प्रकृतिजन्यबोधे प्रकारीभूतस्य भावप्रत्ययार्थत्वात् मनसो अन्तःकरणस्य अनुरक्तता मनोऽनुरक्तता, अभिव्यक्ता चासो मनोऽनुरक्तता, अभिव्यक्तमनोऽनुरक्तता स्फुटा-स्पष्टा / 'स्फुटे स्पष्टं प्रकाशं प्रकटोल्बणे' 6-103 /