________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां तृतीयः सर्गः तान्तथा / "उष्ट्रमुखादयः" 3 / 1 / 23 / / इत्यनेन बहुव्रीहिसमासः, पूर्वपदस्योपमानसरूपस्य लोपश्च निपात्यते / कामपि-अनिर्वचनीयसौन्दर्यशालिनीम् / वनेचरीम-वने कानने चरति विचरतीति वनेचरी तान्तथा / भिल्लीमिति यावत् / अचिरात्-झटिति, शीघ्रमेवेत्यर्थः / अमोचयत्-पर्यत्या. जयत् // 7 // शिशूनपि स्वान सममोचयद् नृपं, कृपाप्रपारूपमुपेत्य सत्यगीः / फलस्तनस्थानविदीर्णरागिह-निदर्शनात् सा सृजती तदाशिषम् // 79 // अन्वयः–तदा, आशिषम् , सृजती, सत्यगीः, सा, उपेत्य, फलस्तनस्थानविदीर्णरागिहृन्निदर्शनात् , कृपाप्रपारूपम् , नृपम् , स्वान् , शिशून् , अपि, सममोचयत् // 79 // वृत्तिः-तदा-तस्मिन् समये / आशिपम्-आशीर्वादम् , शुभाशसनमिति यावत् / सृजतीकुर्वन्ती / शुभाशिषा संयोजयन्तीति यावत् / सत्यगी:-सत्या तथ्या समीचीनेति यावत् , गीर्वाणी यस्याः सा सत्यगीः / मा-पूर्ववर्णितप्रकारा वनेचरीति यावत् / कृपाप्रपारूपम्-कृपा दयैव प्रपा पानीयशाला कृपाप्रपा तस्या इव रूपम् लोकोपकारकत्वस्वभावो यस्य स कृपाप्रपारूपस्तन्तथा / नृपम्-राजानम् भगवन्तं शान्तिनाथमिति यावत् / उपेत्य-समधिगत्य / फलस्तनस्थानविदीर्णगमिहन्निदर्शनात-फलवत् प्रसवतुल्यौ स्तनौ कुचौ फलस्तनौ, तयोः स्थानम अवकाशः फलस्तनस्थानम् , तत्र विदीर्णम् विरहासात्वाद्विधाभूतम् / अथ च रागि अनुरागविशिष्टम् यद् हृत् हृदयम् अन्तःकरणम् इति यावत् / फलस्तनस्थानविदीर्णरागिहृत् तस्य निदर्शनम् प्रकाशनम् फलस्तनस्थानविदोणेरागिहृन्निदर्शनम् , तस्मात्तथा / स्वान-निजान् , आत्मीयानिति यावत् / शिशन-बालकान् / अपिसमुच्चये / सममोचयत्-पर्यत्याजयत् / / 6 / / अभिक्रमे भीमसुतां वियोजितां, श्रियाऽथ सस्मार सुराङ्गनाजिताम् / नृपश्चलन वीक्ष्य लता फलान्तराद्, विशच्छुकास्यस्मरकिंशुकाशुगाम् // 8 // अन्वयः- अथ, अभिक्रमे, चलन् नृपः, फलान्तराद्, विशच्छुकास्यस्मरकिंशुकाशुगाम् , लताम् , वीक्ष्य, श्रिया, सुराङ्गनाजिताम् , वियोजिताम् , भीमसुताम् , सस्मार // 80 // वृत्तिः-अथ-अनन्तरम् / अभिकमे-निर्भीकतया शत्रून प्रति युद्धार्थगमने उद्देश्यत्वं सप्तम्यर्थः, तादृशगमनोद्देशेनेत्यर्थः / चलन-प्रतिष्ठमाणः, प्रस्थानमादधदिति यावत् / नृपः-प्रभुः, भगवाञ् शान्तिनाथ इति यावत् / फलान्तरात-फलानां प्रसवानाम् अन्तरम् मध्यभागः फलान्तरम् , तस्मात्तथा / विशच्छुकास्यस्मरकिंशुकाशुगाम्-विशन्ति प्रविशन्ति यानि शुकास्यानि शुकमुखानि तान्येव स्मरस्य किंशुकानि पलाशपुष्पाण्येव आशुगा बाणा यस्याम् , सा विशच्छुकास्यस्मरकिंशुकाशुगा, तान्तथा /