SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ 194 ] श्रीजैननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे वियोगिनीमेक्षत दाडिमीमसौ, तपस्तपन्ती बहुलातपे तपे / समुद्गिरन्ती करुणाऽरुणास्रवं, पदे तदासेविभिरीहितं रसम् // 77 // अन्वयः- असो, बहुलातपे, तपे, तपः, तपन्तीम् , पदे, तदासेविभिः, इहितम् , करुणाऽरुणासवम् , रसम् , समुगिरन्तीम्, वियोगिनीम् , दाडिमीम् , ऐक्षत // 77 // वृत्तिः-असौ-भगवाशान्तिनाथः। बहुलातपे-बहुलोऽतिशयित आतपः सूर्यप्रकाशात्मकस्तेजोविशेषो यस्मिन् बहुलातपस्तस्मिँस्तथा। तपे-ग्रीष्मतौं / तपः-तपस्याम् / तपन्तीम्-विदधतीम् , कुर्वन्तीमिति यावत् / पदे-चरणे / चरणयोरिति यावत् / तदासेविभिः–तामासेवन्ते शुश्रूषन्ते तच्छीलास्तदासेविनस्तैस्तथा / ईहितम्-अभिवाब्छितम् , अभिलषितमिति यावत् / करुणाऽरुणास्रवम्अस्रुणो नेत्रजलस्टायम् , आस्रवः, करुणया तदासेवाप्रयुक्तपरमपरिश्रमस्मरणसञ्जातया दयया अरुणः करुणाऽरुणः, करुणाऽरुणश्चासौ आस्रवः करुणाऽरुणास्रवः तन्तथा / रसम्-रस्यते आस्वाद्यते इति रसो रतिस्तन्तथा / समुगिरन्तीम्-प्रकाशयन्तीम् , अभिव्यञ्जयन्तीमिति यावत् / वियोगिनीम्वियोगः प्रियतमविप्रयोगस्तद्विच्छेद इति यावदस्त्यस्या इति वियोगिनी तान्तथा / “अतोऽनेकस्वरादेः" 7 / 2 / 6 / / इत्यनेन मत्वर्थे 'इन्' प्रत्ययः / दाडिमीम्-नायिकामिव दाडिमीम् / ऐक्षत-समवलोकयत् / / 7 / / वनेचरी कामपि तद्भटे तां, प्रियस्मृतेः स्पष्टमुदीतकण्टकाम् / त्रसन्मृगाक्षीमचिरादमोचय-लतामिवायं गिरिजां रजोन्विताम् // 78 // अन्वयः—अयम् , तद्भटः, धृताम् , प्रियस्मृतेः, स्पष्टम् , उदीतकण्टकाम् , गिरिजाम् , रजोन्विताम् , लताम् , इव, प्रसन्मृगाक्षीम् , कामपि, वनेचरीम् , अचिरात्, अमोचयत् // 78 // वृत्तिः-अयम्-असौ भगवाशान्तिनाथ इति यावत् / तद्भटै?-तस्य भगवतः शान्तिनाथस्य भटा योधा, वीरा, इति यावत् तद्भटाः यद्वा ते दिग्विजयौपयिकत्वेन प्रसिद्धाश्च ते भटा योद्धास्तद्भटास्तैस्तथा / धृताम्-गृहीताम् / प्रियस्मृतेः-प्रियतमस्मरणात् / स्पष्टम्-व्यक्तं यथा स्यात्तथा / उदौतकण्टकाम्-उदीताः उदयं प्रकाशमिति यावदापन्नाः कण्टकाः रोमाञ्चाः, पक्षे-द्रुमाङ्गानि, सात्विकभावविशेषा इति यावद्यस्याः सोदीतकण्टका तान्तथा / "स्तम्भः स्वेदोऽथ रोमाश्चः, स्वरभेदोऽथ वेपथुः / वैवर्ण्यमथुप्रलय, इत्यष्टौ सात्त्विका रसाः।" इति साहित्यदर्पणे विश्वनाथः। गिरिजाम्-गिरौ पर्वते जातोत्पन्ना गिरिजा तान्तथा / रजोन्वितोम-रजस्वलाम् , पक्षे रजोभिः धूलिभिरन्विता सम्बद्धा रजोन्विता धूलिधूसरितामिति यावत् / लताम्-वल्लीम् / इव-यथा / त्रसन्मृगाक्षीम्-त्रसन्तो भगविहलाश्च ते मृगा हरिणामसन्मृगास्तेषामक्षिणी नयने इव अक्षिणी नयने यस्याः सा त्रसन्मृगाक्षी
SR No.004339
Book TitleShantinath Charitram
Original Sutra AuthorAmrutsuri
AuthorAbhaydevsuri
PublisherJain Sahitya Vardhak Sabha
Publication Year1965
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy