________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वदिनोदिन्यां तृतीयः सर्गः [ 193 समुन्मिलद्घटान्-समुन्नतान् न्यग्रोधवृक्षान् / इव-यथा। (स्थितान् ) गजान्-हस्तिनः / अलम्अतिशयेन / अपश्यत्-अदर्शद , दृष्टवानिति यावत् / / 4 / / विभुर्वनातिक्रमणे स चक्रभृत् , कचिद् घटान् वैक्षत संतपस्यतः / फलानि धूमस्य धयानधोमुखान, कुचोपमाप्त्यै पथि दाडिमागमे // 75 // अन्वयः-वनातिक्रमणे, क्वचित् , पथि, सः, चक्रभृद्, विभुः, कुचोपमाप्त्य, अधोमुखान् , धुमस्य, धयान , संतपस्यतः, घटान् , व, दाडिमागमे, फलानि, ऐक्षत् // 7 // वृत्तिः–वनातिक्रमणे-वनस्य गहनस्य अतिक्रमणमुल्लङ्घनम् तस्मिंस्तथा / क्वचित-कुत्रचित् / पथि-मार्गे / सः-प्रसिद्धः / चक्रभृद्-चक्रवर्ती / विभुः-प्रभुः, श्रीशान्तिनाथभगवानितियावत् / कुचोपमाप्त्यै-स्तनसादृश्यमधिगन्तुम् / अधोमुखान्-निम्नवदनान / धूमस्य-वह्विध्वजस्य / धयान्पानं विदधतः / अतएव, संतपस्यतः-तपस्यां प्रकुर्वतः / घटान-कुम्भान् / व-इव, 'मणी वोष्ट्रस्य' इ यादौ व शब्दस्येवार्थकताप्रसिद्धेः। दाडिमागमे-दाडिमस्य फलानि दाडिमानि फलेऽर्थे विहितस्य तद्धितप्रत्ययस्य लुक् , तेषामागमः समधिगमः सम्प्राप्तिरिति यावत् , अत्रेति दाडिमागमो दाडिमवृक्षस्तस्मिंस्तथा / फलानि-दाडिमप्रसवान् / ऐक्षत-अपश्यत् , दृष्टवानिति यावत् / एतानि दाडिमीफलानि न किन्तु घटा एवैते तानिवेत्युत्प्रेक्षा // 75 // कपालिनः क्वापि कपालिपालिता-सनस्थितानैक्ष्य तदाकृतेस्तुलाम् / अदीधरद् वीरतया फलान्विते, स दाडिमे दोहदधूपिनि द्रुमे // 76 // अन्वयः-सः, क्वापि, कपालिपालितासनस्थितान्, कपालिनः, ऐल्य, फलान्विते, दोहदपिनि, दाडिमे, द्रुमे, वीरतया, तदाकृतेः, तुलाम् , अदीधरत् // 76 // वृत्तिः–सः-महामहिमशालितया तीर्थकृत्पञ्चमचक्रवर्तितया च प्रसिद्धो भगवाजशान्तिनाथ इत्यर्थः / वापि-कुत्रापि, कस्मिँश्चित्प्रदेशे इति यावत् / कालिपालितासनस्थितान्-कालमपयवत्वेनास्त्यस्येति कपाली घटस्तेन पालितम् संरक्षितम् , विशिष्टमित्यर्थः, कपालिपालितम् तच्च तत् आसनम्-आस्यतेऽत्रेत्यासनम् कपालिपालितासनम् तत्र स्थिता अवस्थिता विराजमाना इति यावत् / कपालिपालितासनस्थितास्ताँस्तथा। कपालिनः-संन्यासिविशेषान् / ऐक्ष्य-समवलोक्य / फलान्वितेप्रसवविशिष्टे / दोहदधृपिनि-अतिशयितफलादिसमृद्धिर्येन भवति तद्दोहदम् दाडिमीवृक्षस्य दोहदाय यो धूपः, अगुर्वादिसुगन्धिद्रव्यविशेषः दोहदधूपः सोऽस्यास्तीति दोहदधूपी तस्मिँस्तथा / दाडिमे-स्वनामप्रसिद्धे / द्रमे-वृक्षे / वीरतया-शौर्यशौलितया / तदाकृतेः-संन्यासिविशेषस्वरूपस्य / तुलाम्सादृश्यम् / अदीधरव-धारयामास // 76 / /