________________ 192 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे हृता दूरंगता आरतिरारामो यत्र सा हृतारतिस्तस्यास्तथा। हृता अपहृता अरतिः खिन्नता यया सा तथेति वा / समितेः-युद्धस्य, यतिपरिषदश्चापीत्यर्थः / श्रमणसमितेरिति यावत् / वेलाम्समयम् / प्रपद्य-समधिगत्य / धा-क्रोधेन / केतकम्-तन्नामकप्रसिद्धपुष्पवृक्षविशेषम् / अक्रश्यतअनिन्द्यत // 72 // विदर्भसुभ्रूस्तनतुङ्गताप्तये, तपस्यतोऽद्रीन नृपतिर्व्यतिबजन / ततः प्रयाणात् तदुपत्यकाश्रये, जहार तुङ्गत्वमदं पटालयः // 73 // अन्वयः-विदर्भसुभ्रूस्तनतुङ्गताप्तये, तपस्यतः, अद्रीन् , व्यतिव्रजन् , नृपतिः, ततः, प्रयाणात् , तदुपत्यकाश्रये, पटालयः,तुङ्गत्वमदम् , जहार // 7 // वृत्तिः-विदर्भसुभ्रस्तनतुगताप्तये-विदर्भाणाम् तदाख्यदेशानाम् सुभ्रवः शोभननेत्रोपरिविद्यमानरोमविशिष्टाङ्गना विदर्भसुभ्रवः तासां स्तना विदर्भसुभ्रूस्तनास्तेषां तुङ्गतोच्चता विदर्भसुभ्रूस्तनतुङ्गता तस्या आप्तिः समधिगमो विदर्भसुभ्रूस्तनतुङ्गताप्तिस्तस्यै तथा / तपस्यतः-तपस्यामादधतः / अद्रीन-गिरीन, पर्वतानिति यावत् / व्यतिव्रजन-व्यतिगच्छन् , व्यतिक्रामन्निति यावत् / नृपतिःराजा चक्री भगवाशान्तिनाथ इति यावत् / ततः-तस्मात्स्थानात् , तदनन्तरं वेति यावत् / प्रयाणात्-प्रस्थानात् / तदुपत्यकाश्रये-तेषां पर्वतानामुपत्यका अधोभूमयस्तदुपत्यकास्तासामाश्रय आधारस्तदुपत्यकाश्रयस्तस्मिँस्तथा / स्थितैरितिशेषः / पटालय:-पटानां तन्तुसमवायिकारणकानामंशुकानाम् वस्नानामिति यावत् / आलया गृहा पटालयास्तैस्तथा / तुङ्गत्वमदम्-तुङ्गत्वस्य उच्चताया मदो गवस्तुङ्गत्वमदस्तन्तथा / जहार-हृतवान् // 73 // प्रतिस्थलं तत्र गजान समुन्मिलद्-वटानिवापश्यदलं तपस्यतः / स्वकुम्भयोस्तत्कुचशोभयाऽभयं, तथैव धित्सून शिरसा नमस्यतः।।७४॥ अन्वयः- तत्र, प्रतिस्थलम , स्वकुम्भयोः, तत्कुचशोभया, अभयम् , धिसून् , तथैव, शिरसा, नमस्यतः, तपस्यतः, समुन्मिलवटान , इव, (स्थितान् ) गजान् , अपश्यत् // 74 // वृत्तिः-तत्र-पूर्वोक्तपर्वतोपत्यकायाम् , तस्मिन् स्थाने वा / प्रतिस्थलम्-प्रतिस्थानम् , सर्वत्रेति यावत् / स्वकुम्भयो:-स्वस्य आत्मनः कुम्भौ कुम्भाकृती शिरस्सम्बन्धिमांसपिण्डौ स्वकुम्भौ तयोस्तथा / तत्कुचशोभया-तासाम् विदर्भसुभ्रुवाम् कुचशोभा स्तनसौन्दर्यम् तत्कुचशोभा तया तथा। अभयम्-भयाभावम् , अभयदानमिति यावत् / धिसून-धारणेच्छावतः / तथैव-तेनैव प्रकारेण किश्चेत्यर्थः / शिरसा-मस्तकेन / नमस्यत:-नमस्कुर्वतः / अत एव, तपस्यत:-तपश्चर्यामादधतः,