________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां तृतीयः सर्गः [ 191 मुनिघातस्तेन पातकम्-पापम् यस्य तत् मुनिघातपातकम् / ( त्वाम्-केतकम् ) धिक्-तव धिक्कारोऽस्त्वितिभावः / “गौणात् समयानिकषाहाधिगन्तराऽन्तरेणातियेनतेनैर्द्वितीया" 2 / 2 / 33 // इत्यनेन धिकशब्दयोगे द्वितीया भवतीति वेदितव्यम् // 70 // रतिप्रसक्तं तदसक्तमाशये-ऽप्यसंशयं नः सकलं बलं बलात् / प्रसूनधन्वा शरसात् करोति मा, विमुच्य रुच्योपशमस्य चेतसि // 71 // अन्वयः-प्रसूनधन्वा, चेतसि, उपशमस्य, रुच्या, ( हेतुना ) मा, विमुच्य, आशये, तदसक्तम् , अपि, रतिप्रसक्तम् , नः, सकलम् , बलम् , बलात् , असंशयम् , शरसात्करोति // 71 // वृत्तिः प्रसूनधन्वा-प्रसूनम् पुष्पमेव धनुः कार्मुकं यस्य स प्रसूनधन्वा, कन्दर्प इति यावत् / चेतसि-अन्तःकरणे / उपशमस्य-प्रशमस्य, शान्तेरिति यावत् / रुच्या-तेजसा दीप्त्येति यावत् / मा-माम् / मल्लक्षणं जनमिति यावत् / विमुच्य-परित्यज्य विहायेति यावत् / आशय-अभिप्राये, मानसिकसंकल्पावच्छेदेनेति यावत्, अभिप्रायेणेति यावत् / तदसक्तम्-तस्यां रतौ असक्तम् अनासक्तम् तदसक्तम् / अपि-सम्भावनायाम् / रतिप्रसक्तम्-फलतो रतिप्रसञ्जनमधिगतम् / न:-अस्माकम् / सकलम्-समस्तम् / बलम्-सैन्यम् / बलात्-हठात्, सहसेत्यर्थः / प्रसह्येति यावत् / असंशयम्निःसन्देहम् / शरसात्करोति-बाणाधीनं करोतीत्यर्थः / केवलं मां विहाय सकलं मत्सैन्यवर्ग कन्दपः त्वदीयमुद्दीपकत्वमादाय निजबाणाधीनं करोतीति भावः // 71 // उदीर्य वीर्यादतिविप्रियं वशे, निधित्सता शान्तरसाख्यमानसम् / प्रपद्य वेलां समितेर्हतारते-रिति क्रुधाऽक्रुश्यत तेन केतकम् // 72 // अन्वयः-इति, वीर्यात् , अतिविधियम् , उदीयं शान्तरसाख्यमानसम् , वशे, निधित्सता, तेन, हृतारते, समितेः, वेलाम् , प्रपद्य, क्रुधा, केतकम् , अक्रुश्यत // 72 // वृत्तिः इति-मां विहाय सकलं मत्सैन्यवर्ग निजबाणाधीनं करोति, यतस्त्वां निमितीकृत्य कन्दर्पस्तस्माद्धेतोरित्यर्थः / वीर्यात-शौर्यात् , ओजस इति यावत् / अतिविप्रियम्-अति अत्यन्तं विप्रियम्-व्यलीकं यस्मिंस्तद्यथा स्यात्तथा / उदीर्य-उक्त्वा / शान्तरसाख्यमानसम्-शान्तरसं निर्वेदस्थायिकरसमाचष्टे कथयति इति शान्तरसाख्यम् , तच्च तन्मानसमन्तःकरणम् शान्तरसाख्यमानसम् / वस्तुतस्तु 'शान्तरसाढ्यमानसमिति पाठः' इति साधीयान् प्रतिभाति / शान्तरसेन आढ्यं परिपूर्णम् शान्तरसाढ्ययम् तच्च तन्मानसम् अन्तःकरणम् शान्तरसाढ्यमानसम् , इति तात्पर्यमालोचनीयम् / वशे-आयत्तत्वे / निधित्सता-स्थापनेच्छावता / तेन-भगवता शान्तिनाथेन / हृतारते: