________________ 190 श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे धनुर्मधुस्विन्नकरोऽपि भीमजा-प्रियं परागैरनुरागमुन्नयन् / मनो हिनस्त्येव हि नस्तिरोभवन, मनोभवः स्वाश्रयभित् कृशानुवत्॥६९॥ अन्वयः-धनुर्मधुस्विन्नकरः, अपि, परागैः, अनुरागम् , उन्नयन् , तिरोभवन, मनोभवः, स्वाश्रयभित्, कृशानुवत् , भीमजाप्रियम् , नः, मनः, हिनस्ति, एव, हि // 69 // ... वृत्तिः-धनुर्मधुस्विन्नकर:-धनुषः कामुकस्य पुष्पस्येति यावत् मधु रसो धनुर्मधु तेन स्विन्नः क्लिन्नः आर्द्र इति यावत् / करो हस्तो यस्य स धनुर्मधुस्विन्नकरः / अपि-सम्भावनायाम् / परागैःकेतकीपुष्परजोभिः / अनुरागम्-प्रेमाख्यचित्तवृत्तिविशेषम् / उन्नयन्-संवर्धयन् / तिरोभवन्अन्तर्दधत्, अलक्ष्यतामादधान इति यावत् / मनोभवः-कामः / स्वाश्रयभित्-स्वस्य आत्मन आश्रय आधारः स्वाश्रयस्तं भिनत्ति छिनत्ति विनाशयतीति यावत् तथा / कृशानुवत्-अग्नितुल्यः / भीमजाप्रियम-भीमजाया भीमोत्पन्नायाः प्रियमभीष्टम् , कमनीयमिति यावत् भीमजाप्रियम् / न:-अस्माकम् / मन:-चित्तम् अन्तःकरणमिति यावत्। हिनस्ति-पीडयति / एव हि-अवधारणार्थकमव्यययुगलम्।।६९।। मुनेर्मनोऽवामनकामनाशने, परं परागैस्तव धूलिहस्तयन् / स्मरः स्मरन विश्वजयं शरैर्यधान,व्यथान्वितं धिग् मुनिघातपातकम् / 70 / अन्वयः-अवामनकामनाशने, परम् , मुनेः, मनः, स्मरन् , तव, परागैः, धूलिहस्तयन् , स्मरः, शरैः, विश्वजयम् , व्यधात् , ( अतः ) व्यथान्वितम् , मुनिघातपातकम् , ( त्वाम् ) धिक् // 7 // वृत्तिः-अवामनकामनाशने-अवामनः सजश्चासौ कामः कन्दर्पः अवामनकामस्तस्य नाशनम् ध्वंसनम् अवामनकामनाशनम् तस्मिँस्तथा / परम्-तत्परम् , पटीय इति यावत् / मुनेःअनगारस्य श्रमणस्येति यावत् / मन:-अन्तःकरणम्, चित्तमिति यावत् / स्मरन्-विध्वंसकत्वेनानुचिन्तयन् / तव-भवतः / केतकस्य / परागैः--कुसुमकिञ्जल्कैः / धूलिहस्तयन्-धूलियुक्तं हस्तं कुर्वनित्यर्थः / तव धूलियदि न स्यात्तदा कामः स्विन्नकरत्वाच्च्युतसायकः स्यात्तदा वियोगिनां जीवन सम्भाव्येत, तदेव तु नास्त्यतोऽयमपराधस्तवैव / स्विन्नकरो धनुधरो धूलियुक्तं हस्तं करोतीति जातिः / धूलिहस्तयन्निति धूलियुक्तं हस्तं करोतीति ण्यन्ताच्छतेति बोध्यम् / स्मर:-कन्दर्पः / शरैः-बाणैः / विश्वजयम्-विश्वानां जगतां जयो विश्वजयस्तन्तथा / विश्वेषां सर्वेषां पिपीलिकादिब्रह्मपय॑न्तानां (उपरि ) जयो विजयो विश्वजयस्तन्तथा / व्यधात्-कृतवान् / ( अत:-अस्माद्धेतोः) व्यथान्वितम्व्यथया पीडया अन्वितम् सम्बद्धम् व्यथान्वितम् , पीडासम्बन्धिनमित्यर्थः / दुःखदायकमिति यावत् / मुनिघातपातकम्-मुनीनामनगाराणाम् श्रमणानामिति यावत् / घातः कामव्यथादायकत्वाद् वधो