________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां तृतीयः सर्गः [189 अन्वयः—यत् , यः, तव, पत्त्रम् , एव, करे, अधिकुर्यात् , तस्य, धृतिः, सपत्राकृतिम् , एति, च, करपत्रमूर्तिभिः, पत्रः, न्वकम् , वियोगियोगे, स्फुटम् , परमोहकृत् // 67 // वृत्तिः-यव-यस्माद्धेतोः। य:-विप्रयोगमापन्नः पुरुषः स्त्रीजनो वा कश्चित्। तव-त्वल्लक्षणस्य केतकस्य / पत्रम्-दलम् / एव-अवधारणार्थ कमव्ययम् / किं पुनः पुष्पादिकमपीति भावः / करेहस्ते / अधिकुति-धातूनामनेकार्थत्वात् , गृह्णीयादित्यर्थः / तस्य-तादृशस्य जनस्य / धृतिःधैर्य्यम् / सपत्राकृतिम्-दुःखम् / एति-गच्छति / च-पुनः। करपत्रमूर्तिभिः-करपत्त्रवत् क्रकचवन्मूर्तिः स्वरूपमाकारविशेषो वा येषान्ते तथा / पत्रः-दलैः / त्वकम-त्वम् / वियोगियोगे-वियोगिनां विरहिणां योगोऽपूर्वार्थसम्प्राप्तिर्वियोगियोगस्तस्मिंस्तथा / अत्र-वियोगयोगे' इति पाठः साधीयान् प्रतिभाति, वियोगस्य विच्छेदस्य योगः सम्बन्धो वियोगयोगस्तस्मिंस्तथा, वियोगावस्थायामिति यावत्। अस्मिन्पक्षेवियोगिनामित्याहर्तव्यमितिविशेषः / स्फुटम-व्यक्तं यथास्यात्तथा / परमोहकृत-परोऽतिशयितश्चासौ मोहोऽज्ञानम् परमोहस्तं करोतीति तथा // 6 // फलं न सुस्वादु दलं सधूलिक, तवास्ति वा पल्लव एव चादरः / विना फलं केतक ! केन पशुवद्, वियोगिहृद्दारुणि दारुणायसे // 6 // अन्वयः–तव, सुस्वादु, फलम् , न, अस्ति, वा, दलम् , सधूलिकम् , अस्ति, पल्लवे, एष, आदरः, केतक !, फलम् , विना, केन, पशुवत् वियोगिहृद्दारुणि, दारुणायसे // 68 // * वृत्तिः-तव-भवतः केतकस्य / सुस्वादु-सम्यगास्वादनयोग्यम् / फलम्-प्रसवः / न-नहि / अस्ति-वर्तते / वा-अथवा समुच्चयार्थकं वाऽव्ययम् / दलम्-पत्रम् / सधूलिकम्-धूल्या पाशुना रजसेति यावत् सहितम् सधूलिकम् / अस्ति-विद्यते / पल्लवे-किसलये / (सति ) एव-अवधारणार्थकमव्ययम् / आदर:-सत्कारः / अथवा-"आपल्लवे एव आदरः” इत्येवंच्छेदः, पल्लवानभिव्याप्यापल्लवम् , तस्मिँस्तथा / केतक !-तन्नामकपुष्पविशेषवृक्षः ! फलम्-प्रसवम् / विना-अन्तरेण / अपीतिशेषः / केन-केन हेतुना, किंकारणेनेति यावत्। पशुवत्-परशुवत् , तन्नामकानविशेषवदिति यावत् / वियोगिहृद्दारुणि-वियोगिनां प्रियतमाविप्रयुक्तानां पुंसाम् प्रियतमविप्रयुक्तानामङ्गनानामिति यावत्, हृदयम् अन्तःकरणम् , वियोगिहृत् तदेव दारु काष्ठम् वियोगिहदारु तस्मिँस्तथा / दारुणायसे-दारुणं भीषणवदाचरतीति तथा भीषणायते इति यावत् / केतकाप्रदर्शनाद्वियोगिनोः स्त्रीपुंसयोधैर्यभङ्गः, पत्रदर्शनाच्च हृदयं विदीर्ण भवतीति भावः // 68 / /