________________ 188 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे रूपकालकारः / सचिवेन-सहायेन, उपकारकेणेति यावत् / कामिनो:-कामः सम्भोगाद्यभिलाषोऽस्त्यस्येति कामी, कामोऽस्त्यस्या इति कामिनी, कामी च कामिनी चेति कामिनौ तयोः कामिनोः, सानुरागयोदम्पत्योरिति यावत् , संभोगाभिलाषयोः स्त्रीपुंसयोरिति यावत् / “पुरुषः स्त्रिया" 3 / 1 / 126 / / इत्यनेन पुंवाचकस्य कामिशब्दस्य स्त्रीवाचकस्य कामिनीशब्दस्य लोपः। मनोयुगम्-मनसोः स्त्रीपुंसान्तःकरणयोयुगम्-द्वयम् , मनोयुगम् / योजयते-संयोजयति, एकीकरोतीति यावत् / तत्प्रथमकलिकयाऽतिसुरभितयोद्दीपनभावहेतुभूतया कामिनावुचितानुचितसम्बन्धमप्यविचार्य्य मिथो रिरंसू प्रवर्तेते इति भावः। . उत्तरार्द्धस्य अस्फुटत्वात्कथंचिद् व्याख्यायते / तदा-मनोयुगस्यैकीकरणानन्तरम् / अनया-कामिन्या आश्लेषविशेषणे-आश्लेषस्य आलिङ्गनस्य अङ्कपाल्या इति यावद्विशेषणम् संविधानं, आश्लेषविशेषणम् तस्मिंस्तथा / सतीतिशेषः / नववाससि-नवं नूतनञ्च तद्वासो वसनमंशुकमिति यावत् / नववासस्तस्मिंस्तथा / इव-यथा / सा-प्रसिद्धा / शीतभीतिः-शीताद् जाड्याद् भीतिर्भयम्, शीतभीतिः। ननहि / भवेत-जायेत / यथा नूतन वस्त्रधारणे शीतभयं निवर्तते तथा कामिनोः परस्परालिङ्गने सत्यपि शीतभीतिर्निवर्तते इत्यनुभववेद्यमिति // 65 // त्वयि प्रपन्ने तरुणस्य योषितां, मनोभवः सीव्यति दुर्यशःपटौ। . प्रसह्य संकेतपदेऽपि केतनं, त्वमेव तत् केतकवागनिकेतनम् // 66 // अन्वयः-मनोभवः, त्वयि, प्रपन्ने, तरुणस्य, योषिताम् , ( च, ) दुर्यशःपटौ, सीव्यति, सङ्केतपदे, अपि, त्वम् , एव, प्रसह्य, केतनम् , तत् , केतकवानिकेतनम् , ( असि ) // 66 // वृत्तिः-मनोभवः-मनसोऽन्तःकरणात् , सङ्कल्परूपाद्वा भव उत्पत्तिर्यस्य स तथा / त्वयित्वल्लक्षणे, केतक इतियावत् / प्रपन्ने-प्राप्ते, सुसज्जित इति यावत् ,विकसित इति तु हृदयम् / तरुणस्ययूनः / (च-पुनः ) / योषिताम्-सीमन्तिनीनाम् / दुर्यशःपटौ-दुष्कीर्ती एव पटौ वस्त्रे दुर्यशःपटौ तौ तथा, दुर्यशोलक्षणमम्बरयुगलमिति यावत् / सीव्यति-संयोजयति, युवभिः कर्तव्याकर्तव्यविवेकं हारयतीतिभावः / सङ्केतपदे-रमणार्थपूर्वनियोजितस्थानविशेषे / अपि-खलु / त्वम्-केतकम् / एवअवधारणे / प्रसह्य-हठतः / केतनम्-चिह्नम् / भवसीति शेषः / अथवा सङ्केतपदे अपि त्वं प्रसा केतनमुत्पातविशेष एव, कण्टकितत्वादितिभावः। केतनशब्दः केत्वर्थः, केतुस्तु प्रसिद्ध उत्पातलक्ष्मार्थयोरिति / तत्-ततो हेतोः। ( त्वमेव ) केतकवागनिकेतनम्-केतकवाचः केतकेतिशब्दस्य निकेतनम् लक्षणयाऽर्थस्तथा। असीति शेषः // 66 / / करेऽधिकुर्यात्तव पत्त्रमेव यो, धृतिः सपत्राकृतिमेति तस्य यत् / स्फुटं च पत्रैः करपत्रमूर्तिभि-वियोगियोगे परमोहकृत् त्वकम् // 67 //