________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां तृतीयः सर्गः यावत् / वैरम्-शत्रुताम् / प्रपद्य-प्राप्य, समधिगत्येति यावत् / लोकेऽपि प्रहरणोद्यतं प्रति वैरस्यापन्नमानसो जनो दृश्यते / अत एव, तदन्तकृत्-तस्य स्मरस्य अन्तो विनाशस्तदन्तस्तं करोतीति तदन्तकृत् मदनान्ताक इत्यर्थः / हरः-शम्भुस्त्रिलोचन इति यावत् / ततः-मदनात् ( अपि ) दुराकर्षतयादुर्निवारतया, सद्योदुःखदायितयेति यावत् / चेतसा-अन्तःकरणेन / त्वकाम्-त्वाम् / न्यवारयतन्यषेधयत् , अवारुणदिति यावत् / किम्-वितर्केऽव्ययम् / अत्र 'चेतसस्त्वकामिति पाठः साधीयान प्रतिभाति / चेतसोऽन्तःकरणान्न्यवारयत् , अन्तःकरणे स्थानं न दत्तमिति यावत् / / 63 / / दधासि पत्रं करपत्रकैतवात् , समार्दवत्वेऽपि जनार्दनोचितम् / कृतालिपानं तत एव सेवनाद्, विगीयसे मन्मथदेहदाहिना // 64 // अन्वयः-समार्दवत्वे, अपि, जनार्दनोचितम् , करपत्रकेतवात् , कृतालिपानम् , पत्रम् , दधासि, ततः, सेवनात् , एव, मन्मथदेह दाहिना, ( त्वम् ) विगीयसे // 6 // वृत्तिः-समार्दवत्वे-मृदोः कोमलस्य भावो मार्दवम् , मार्दवेन सहितं समार्दवम् , तस्य भावः समार्दवत्वम् , तस्मिँस्तथा। अपि-सम्भावनायाम् / जनार्दनोचितम्-जनानां लोकानामर्दनं पीडनम् जनार्दनम् तस्य उचितम् युक्तम् जनार्दनोचितम् / करपत्त्रकैतवात-करपत्रस्य क्रकचस्य कैतवं व्याजः करपत्त्रकैतवम् तस्मात्तथा / कृतालिपानम्-कृतं विहितमलिभिर्धमरैः पानं यस्य तत्तथा / पत्रम्-दलम् / दधासि-धारयसि / ततः-तस्माद्धेतोः / सेवनात्-आश्रयणात् / पत्रस्येति यावत् / एव-अवधारणार्थकमव्ययम् / मन्मथदेहदाहिना-मनश्चित्तं मध्नातीति मन्मथः कन्दर्पः, तस्य देहः शरीरम् मन्मथदेहस्तं दहति भस्मीकरोति तच्छीलो मन्मथदेहदाही, "अजातेः शोले" 5 / 1 / 154 // इत्यनेन तच्छीले 'णिन्' प्रत्ययः, तेन मन्मथदेहदाहिना शङ्करेण, मदनान्त केनेति यावत् / ( त्वम्-केतकम् ) विगीयसे-निन्द्यसे // 64 // त्वदग्रसूच्या सचिवेन कामिनो-मनोयुगं योजयते मनोभवः / भवेत्तदाश्लेषविशेषणे नयाद्, न शीतभीतिर्नववाससीव सा // 65 // अन्वयः- मनोभवः, त्वदग्रसूच्या, सचिवेन, कामिनोः, मनोयुगम् , योजयते, अनया, तदा, आश्लेषविशेषणे, नववाससि, इव, सा, शीतभीतिः, न, भवेत् // 65 // वृत्तिः-मनोभव:-मनसोऽन्तःकरणाद् भव उत्पत्तिर्यस्य स मनोभवः कामः, कन्दर्प इतियावत् / यद्वा मनसि भवतीति मनोभवः / त्वदग्रसूच्या-तव भवतः केतकस्य अग्रम्-पुरोभागस्त्वदनम् , तदेव सूक्ष्मत्वात्तीक्ष्णत्वाच्च सूची सूचिका, सेवनीद्रव्यमिति यावत् / त्वमसूची तया तथा, तद्रूपेणेत्यर्थः,