SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ 186 ] श्रीजैननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे (कृत्वा ) कटुः-तीत्रः, कटुतासम्पादकः / स्मरायोधनसाधने-स्मरः कामस्तत्प्रयुक्तमायोधनं युद्धम् स्मरायोधनम् तस्य साधनं निष्पादनम् स्मरायोधनसाधनम् तमिस्तथा / पटुः-चतुरः। भट:-वीरः / त्वदीयपत्त्रम्-तव भवतश्चम्पकस्येदम् त्वदीयम् तच्च तत्पत्रम् दलम् त्वदीयपत्त्रम् / तार्किकवादिनातर्कः-धूमो यदि वह्निव्यभिचारी स्याद्वह्निजन्यो न स्यादित्याकारक ऊहविशेषः प्रयोजनमस्येति तार्किकः, स चासौ वादी वादशीलः, विचारचातुरीपण्डित इति यावत् तार्किकवादी तेन तथा / ( इव-यथा) मदनेन-कन्दर्पण / दिग्जये-दिग्विजय प्रसङ्गे / आदितः-प्रथमतः / निधीयते-स्थाप्यते // 61 / / अलं दलं त्वं युगपज्जगजये, निधीयसे कर्णिशरः स्मरेण यत् / ततः कृतं तत् करपत्रदारुणं, वियोगिनां हृद्दलनात् सनाऽन्वितम् // 62 // अन्वयः यत् , स्मरेण, युगपजगजये, त्वम् , कर्णिशरः, निधीयसे, ततः वियोगिनाम् , सना, हृद्दलनात् , करपत्रदारुणम् , कृतम् , दलम् , अलम् , अन्वितम् // 62 // वृत्तिः-यत्-यस्माद्धेतोः / स्मरेण-कन्दर्पण / युगपत्-सहसा, सद्य इत्यर्थः, एककालावच्छेदेनेति भावः। जगजये-जगतां भुवनानां जयो विजयो जगज्जयस्तस्मिंस्तथा / त्वम्-त्वल्लक्षणः / कर्णिशरः-कर्णः श्रवणस्तदाकृतिरेखाविशेषो वाऽस्त्येति कर्णी कर्णयुक्तः, स चासौ शरो बाणः कर्णिशरः / निधीयसे-ध्रियसे, निक्षिप्यसे, प्रहारविषयीक्रियसे इति यावत् / ततः-तस्माद्धेतोः / वियोगिनाम्वियोगः प्रियतमासंयोगाभावोऽस्त्येषामिति वियोगिनो विरहिणस्तेषान्तथा / सना-सर्वदा / हृद्दलनातहृदो हृदयस्य दलनं संपीडनम् , हृद्दलनम् तस्मात्तथा / करपत्नदारुणम्-करपत्त्रवत्कचवदारुणमसह्यत्वात्कठिनम् करपत्रदारुणम् / कृतम्-विहितम् / दलम्-(तव ) पत्रम् / अलम्-पर्याप्त्या। अन्वितम्-अन्वर्थतामुपगतम् // 6 // यदाहनिष्यत्यमुना स्मरश्वलन्, प्रपद्य वैरं किमिति स्मरन हरः / ततो दुराकर्षतया तदन्तकृद्, न्यवारयत् केतक ? चेतसा त्वकाम् / / 63 // अन्वयः-केतक ! यत् , चलन् , स्मरः, अमुना, आहनिष्यति, इति, स्मरन् , वैरम्, प्रपद्य, तदन्तकृत् , हरः, ततः, ( अपि ) दुराकर्षतया, चेतसा, त्वकाम, न्यवारयत् , किम् ? // 6 // वृत्तिः-केतक !-अयिकेतकीकुसुम ! / यत्-यस्माद्धेतोः / चलन्-चाञ्चल्यमावहन् ? / स्मरः-कन्दर्पः / अमुना-केतकीपुष्पेण / आहनिष्यति-प्रहरिष्यति / अत्र हन्धातोराङपूर्वकत्वेऽपि स्वाङ्गकर्मकत्वाभावानात्मनेपदमित्यनुसंधेयम् / इति-इत्थम् / स्मरन्-ध्यायन् , अनुशीलयन्निति
SR No.004339
Book TitleShantinath Charitram
Original Sutra AuthorAmrutsuri
AuthorAbhaydevsuri
PublisherJain Sahitya Vardhak Sabha
Publication Year1965
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy