________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां तृतीय सर्गः [185 अन्वयः-वैरिकदम्बकम् , प्रभोः, भयाद्, धिया, बकम् , गुरूकृत्य, आशासु, चरिष्णु, दुर्यशः, दधानम् , आनने, विलक्षम् , संनिधी, पयोधिरोधः, खलु, दधौ // 59 // वृत्तिः-वैरिकदम्बकम्-शत्रुसमूहः / प्रभोः-भगवतः पञ्चमचक्रवर्तिनः। भयाद्-भीतितः। धिया-बुद्धया, मानसकल्पनयेतियावत् / बकम्-तन्नामविश्रुतमसुरं पक्षिविशेषं वा / गुरूकृत्यगुरुबुद्भथाङ्गीकृत्य / आशासु-दिक्षु / चरिष्णु-विहरणशीलम् / दुर्यशः-अवर्णम् / दधानम्-धारयत् / अत एव, आनने-मुखे, वदनावच्छेदेनेतियावत् / विलक्षम वैलक्ष्यमापन्नम् / संनिधौ-सन्निधाने, निकट इति यावत् / पयोधिरोधः-नीरनिधितीरम् / खलु-नूनम् / दधौ-अधारयत् / राजराजेश्वरसाध्वसात् कान्दिशिकोऽरिनिकरो बकवत् प्रपलाय्याम्बुधितीरमाश्रित इति भावः / / 59 / / वने चरन् सानुचरः पयोरुहां, परागभागैरिव पूजितोऽम्बरे / जिनेश्वरः पञ्चमचक्रिपञ्चमः, स कौतुकी तत्र ददर्श केतकम् // 60 // अन्वयः-सानुचरः, वने, चरन् , अम्बरे, पयोरुहाम् , परागभागः, पूजितः, इव, पञ्चमचक्रिपञ्चमः, कौतुकी, सः, जिनेश्वरः, तत्र, केतकम् , ददर्श // 60 // वृत्तिः-सानुचरः-अनु पश्चाच्चरन्ति गच्छन्तीत्यनुचरा अनुगामिनः भृत्या इति यावत् , तैः सहितः सानुचरः / वने-कानने / चरन्-विचरन् , भ्रमन् , विहरन्निति यावत् / अम्बरे-आकाशे / पयोरुहास-पयसि जले रोहन्त्युत्पद्यन्ते इति पयोरुहः कमलानि तेषान्तथा / परागभागैः-परागाणां किञ्जलकानां सुमनोरेणनामिति यावद् भागा एकदेशा अवयवा इति यावत् परागभागास्तैस्तथा / पूजितः-अर्चितः / इव-यथा / वाच्योत्प्रेक्षालङ्कारः। पञ्चमचक्रिपञ्चमः-पश्चानां पूरणः पश्चमः चक्रिषु चक्रवर्तिषु पञ्चमः चक्रिपञ्चमः, पञ्चमो रुचिरश्वासौ चक्रिपञ्चमः पञ्चमचक्रिपञ्चमः / कौतुकी-अपूर्वपुष्पादिदर्शनोत्सुकः / सः-प्रसिद्धः। जिनेश्वर:-जिनाधिपतिर्भगवाशान्तिनाथ इति यावत् / तत्र-तस्मिन् वने / केतकम्-केतकीपुष्पम् / ददश-व्यलोकयत् / / 60 / / वियोगभाजां हृदि कण्टकैः कटुः, पटुः स्मरायोधनसाधने भटः / त्वदीय मदनेन दिग्जये, निधीयते तार्किकवादिनाऽऽदितः // 61 // अन्वयः-वियोगभाजाम् , हृदि, कण्टकः, ( कृत्वा ) कटुः, स्मरायोधनसाधने, पदः, भटः, त्वदीयपत्त्रम् , तार्किकवादिना, ( इव ) मदनेन, दिग्जये, आदितः, निधीयते // 61 // . वृत्तिः-वियोगभाजाम-वियोगं प्रियतमाविप्रयोगम् भजन्ते सेवन्ते प्राप्नुवन्तीति यावत् / 'बियोगभाजस्तेषान्तथा, विरहिणामित्यर्थः / हृदि-अन्तःकरणे / कण्टकैः-अतिशयतीक्ष्णद्रुमाङ्गविशेषैः /