________________ 184] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रेवृत्तिः-विनिद्रपत्रालिगतालिकैतवात्-विगता निद्रा यस्याः सा विनिद्रा त्यक्तनिद्रा, विकसितेति यावत् सा चासौ पत्रालिदलश्रेणी विनिद्रपत्रालिस्तत्र गतास्ता वा गताः प्राप्ता अलयो भ्रमरा विनिद्रपत्रालिगतालयस्तेषां कैतवम् व्याजो विनिद्रपत्रालिगतालिकैतवम् तस्मात्तथा / नृणाम्जनानम् / बजैः-समूहैः / उत-अत्यर्थकम् / सोमजम्-दुग्धम् / अपीयत-पानक्रियानिरूपितकर्मतावदक्रियतेत्यर्थः / अहो आश्चर्यम् / अपदे-अस्थाने / अपि-सम्भावनायम् / तत्-पीतं सोमजमित्यर्थः / धियाम्-बुद्धीनाम् / महाविभ्रमकारणम्-महान अतिशयितश्चासौ विभ्रमो विशिष्टो भ्रमः महाविभ्रमस्तस्य कारणम्-निदानम् महाविभ्रमकाकरणम् / अपि-सम्भावनायाम् / उन्मदसम्पदेउद्गतो विनष्टो मदो गर्यो ( लोकानाम् ) यतः सा उन्मदा, सा चासौ सम्पत् सम्पतिः उन्मइसम्पत् तस्यै तथा / अभृत्-अभवत् / अथवा-उन्मदसम्पदे, अपि, तत्, अपदे, अपदे, अपि, धियाम् , महाविभ्रमकारणम् , अहो, उन्मदसम्पादकत्वेऽपि तत्पानस्य अस्थानेऽपि बुद्धीनामतिशयविस्फुरणकारणत्वं सञ्जातमित्याश्चर्यमिति सक्षेपार्थः // 57 // चतुर्दिगन्तेषु जयात् ससाधनं, मृगाङ्कचूडामणिवर्जनार्जितम् / धनं विरेजे शिबिरे चयीकृत, सुराचलस्पर्धनया नयाश्रितम् // 58 // अन्वय:-चतुर्दिगन्तेषु, जयात् , ससाधनम् , मृगाङ्कचूडामणिवर्जनार्जितम् , नयाश्रितम् , सुराचलस्पर्धनया, शिबिरे, चयीकृतम् , धनम् , विरेजे // 58 // वृत्तिः-चतुर्दिगन्तेषु-चतस्रश्च ता दिश आशा, दिशा इति यावत् / चतुर्दिशस्तासामन्ताऽवसानानि पर्य्यन्तभागा इति यावत् चतुर्दिगन्तास्तेषु तथा / जयात-विजयात् / पञ्चम्यर्थो जन्यत्वं प्रयोज्यत्वं वाऽवधेयम्, तथा च चतुदिगन्ताधिकविजयजन्यम् , तादृशविजयप्रयोज्यं वा / ससाधनम्-साधनैर्विजयोपकरणैरनादिभिः सहितं ससाधनम् / मृगाङ्कचूडामणिवर्जनार्जितम्-मृगो हरिणोऽङ्के उत्सङ्गे यस्य स मृगाङ्कः पञ्चमचक्रवर्ती भगवाञशान्तिनाथ इति यावत् / तं चूडामणौ शिरोरत्ने वरयतीति क्विपि मृगाङ्कचूडामणिवर स चासौ जनो लोकोसेनान्यादिः मृगाङ्कचूडामणिवर्जनस्तेन अर्जितमुपार्जितम् तथा / नयाश्रितम्-नयेन नीत्या आश्रितम् समुपबृंहितम् , समुल्लसितमिति यावन्नयाश्रितम् / सुराचलस्पर्धनया-सुराणां देवानामचलः पर्वतः सुराचलो मेरुस्तेन स्पर्धना श्रेष्ठत्व निबन्धना स्पर्धा सुराचलस्पर्धना तया तथा / शिविरे-सैन्यसन्निवेशे / चयीकृतम्-एकत्रीकृतम् / सञ्चयीकृतमिति यावत् / धनम्-मुक्तामणिमाणिक्यादि वित्तम् / विरेजे-दिदीपे, शुशुभे इतियावत् / / 58 / / प्रभोर्भयाद् वैरिकदम्बक बकं, धिया गुरूकृत्य विलक्षमानने / दधानमाशासु चरिष्णुदुर्यशः, पयोधिरोधः खलु संनिधौ दधौ // 59 //