________________ -बाचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां तृतीयः सर्गः [ 183 वृत्तिः-नृणाम्-जनानाम् / अस्मिन्-साम्प्रतिके / भगवच्छान्तिनाथाधिष्ठिते / शिबिरेसैन्यसन्निवेशे / अनेकशः-बहुशः / अधिका-प्रचुरा / अपि-सम्भावनायामव्ययम् / क्रयादिकाक्रयो द्रव्यविनिमय आदिः प्रधानं यस्यां सा तथा। क्रिया-कर्म / पुरीप्रिया-पुर्य्या नगाः तास्थ्यनिमित्तलक्षणया पुरीस्थलोकानाम् इति यावत् प्रिया रुचिकारी पुरीप्रिया तथा चोक्तम्-परमलघुमञ्जषायां नागोजीभट्टै-"तात्स्थ्यात्तथैवताद्धात्तत्सामीप्यात्तथैव च” इति / अभृत्-समभवत् / स्थितैःअवस्थितैः, तन्नगराधिकरणकावस्थानवद्भिरिति यावत् / महर्षिवार्धकानुगैः-वृद्धानाम् परिणतवयसाम् , जरठानामिति यावत् समूहो वार्धकम् , महर्षीणां महामुनीनां वार्धकम् महर्षिवार्धकम् तस्य अनुगा अनुगामिनो महर्षिवार्धकानुगास्तैस्तथा। जनैः-लोकैः / तत:-तस्मात् स्थानात् / वस्तु-पदार्थ जातम्। समादाय- गृहीत्वा / विसिष्मिये-विस्मितम् आश्चर्यमासावदितमिति यावत् // 55 // यदत्र तन्त्रे विषयान्तरागते, स्वसज्जने तथ्यमकार्षुरुत्तमाः / फलैः प्रसूनर्बहुमानमादराद्, वने तदातिथ्यमशिक्षि शाखिभिः // 56 // अन्वयः अत्र, विषयान्तरागते, तन्त्रे, स्वसज्जने, उत्तमाः, यत् , तथ्यम् , अकाषु':, वने, शाखिभिः, बहुमानम् , आदरात् , फलैः, प्रसूनः, तत्, आतिथ्यम् , अशिक्षि // 56 // वृत्तिः-अत्र-अस्मिन्नगरे / विषयान्तरागते-अन्यो अपरो विषयो देशो विषयान्तरम् तस्मादागत आयातो विषयान्तरागतस्तस्मिँस्तथा / तन्त्रे-प्रधाने / स्वसजने-स्व आत्मीयश्चासौ सज्जनः स्वसज्जनस्तस्मिँस्तथा / उत्तमाः-महान्तः उत्तमप्रकृतिका इति यावत् / नागरिका इति शेषः / तथ्यम्सत्यम् वस्तुगत्येतियावत् / यत्-यादृशम् आतिथ्यमिति यावत् / अकार्ष:-कृतवन्तः / वने-कानने / अपीतिशेषः / शाखिभिः-शाखा विटपाः सन्त्यस्येति शाखिनो वृक्षास्तैस्तथा / बहुमानम्-बहुरधिको मानः सत्कारो यस्मिन् कर्मणि तद्बहुमानं यथास्यात्तथा / आदरात्-श्रद्धातिशयात् / फलैःवृक्षप्रसवैः। प्रसूनैः-पुष्पैः। तत्-तादृशम् / आतिथ्यम्-अतिथयेऽभ्यागताय इदमातिथ्यम् / अशिक्षिअभ्यस्तम् / राज्ञः प्रति यादृशआतिथ्यात्मकव्यवहारविशेषस्तत्रत्यानामुत्तमप्रकृतिकानाम् अदर्शि शाखिभिस्तदनन्तरन्तैरपि तान् प्रतिफलैः पुष्पादिभिस्तथा कर्तुमशिक्षीति // 56 // विनिद्रपत्रालिगतालिकैतवाद्, व्रजैरुतापीयत सोमजं नृणाम् / तदप्यभूदुन्मदसम्पदेऽपदेऽ-प्यहो महाविभ्रमकारणं धियाम् // 57 // अन्वयः-विनिद्रपत्रालिगतालिकतवात् , नृणाम् , ब्रजेः, उत, सोमजम् , अपीयत, महो, भपदे, अपि, तत् , धियाम् , महाविभ्रमकारणम् , अपि, उन्मदसम्पदे, अभूत् // 57 //