________________ 182 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे अन्वयः-पल्लवे, करे, पुष्पाणि, च, फलानि, समम् , समादाय, जने, परस्परम् , प्रसर्पति, ( सति ) अस्मिन् , समये, प्रीतिमनाः, महामनाः, स्वधन्यताम् , अमन्यत // 53 // वृत्तिः-पनवे-किसलयरूपे / करे-हस्ते / “मुखं चन्द्रः" इत्यादिवद्रपकालङ्कारः, करस्य पल्लवत्वेन रूपणात् तादात्म्याध्यासादिति यावत् / पुष्पाणि-कुसुमानि / च-पुनः / फलानि-प्रसवान् / समम्-सहैव एककालावच्छेदेनेति यावत् / समादाय- गृहीत्वा / जने-लोके / परस्परम्-अन्योन्यम् / प्रसर्पति-गच्छति (सति ) / अस्मिन्-युगपन्मिथस्तादृशफलपुष्पाऽऽदानपूर्वकप्रसर्पणावसरे इत्यर्थः / समये-काले / प्रीतिमना:-प्रीतिहर्षो मनस्यन्तःकरणावच्छेदेन यस्य स तथा / व्यधिकरणबहुव्रीहिसमासः / महामनाः-महत् उदारं मनोऽन्तःकरणं यस्य स तथा / स्वधन्यताम्-स्वस्य आत्मनो धन्यता धन्यवादाहता स्वधन्यता तान्तथा / अमन्यत-अबुध्यत / लोकाः पल्लवे तद्रूपे हस्ते फलानि पुष्पाणि च गृहीत्वा राजपूजार्थं यथा तिष्ठन्ति तथा वृक्षा अपि फलपुष्पादिभिर्मुनिजनेषु सत्कारातिशयमातिथ्यमकाषुरितिभावः // 53 // न याऽजनिष्टाऽप्यनयाऽजनिष्टया, वयोऽतिपातोद्गतवातवेपिते / पुरा जने नीतिरियं पुराता-वयोऽतिपातोद्गतवातवेपिते // 54 // अन्वयः-अजनिष्टया, या, नीतिः, जने, पुरा, न, अजनिष्ट, अनया, पुरा, वयोऽतिपातोद्गतवातवेपिते, ( च ) वयोऽतिपातोद्गतवातवेपिते, इयम् , नीतिः, धृता // 54 // .. वृत्तिः-अजनिष्टया-परमेश्वरकृतसन्तोषेण / या-यादृशी / नीतिः-नयः / जने-लोके / पुरा-पूर्वम् / न-नहि / अजनिष्ट-समुदपद्यत उत्पद्यते स्मेतियावत् / अनया-एतया, शान्तिनाथावस्थानपवित्रयेत्यर्थः / पुरा-नगर्या / वयोऽतिपातोद्गातवातवेपिते-वयसः अवस्थाया अतिपातोऽतिशयो वयोतिपातस्तेन उद्गतं समुत्पन्नं वातवेपितम्-वातरोगप्रयुक्तकम्पनं यस्य स वयोऽतिपातोद्गतवातवेपितस्तस्मिँस्तथा / वृद्ध इति यावत् / ( च-पुनः। ) वयोतिपातोद्गतवातवेपिते-वयसो यौवनस्य अतिपातोऽतिशयो वयोऽतिपातस्तेन उत् ऊर्ध्व गतमुद्गतम् विनष्टमिति यावत् , वातवेपितं वातप्रयोज्यकम्पनं यस्य स वयोऽतिपातोद्गतवातवेपितस्तस्मिंस्तथा / इयम्-पूर्वोक्तविलक्षणा / नीतिः-न्यायः / समुचिताचरणात्मा नय इति यावत् / धृता-अबलम्बिता // 54 // नृणां क्रियास्मिन् शिबिरे पुरीप्रिया, क्रयादिकाऽभूदधिकाप्यनेकशः / स्थितैः समादाय महर्षिवार्धका-नुगैर्जनैर्वस्तु विसिष्मिये ततः // 55 // अन्वयः-नृणाम् , अस्मिन्, शिबिरे, अनेकशः, अधिका, अपि, क्रयादिका, क्रिया, पुरीप्रिया, अभूत् , स्थितैः, महर्षिवार्धकानुगः, जनै, ततः, वस्तु, समादाय, विसिमिये // 55 // ..