________________ -बाचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां तृतीयः सर्ग: [ 181 अन्वयः-विदेशजैः, भूपैः, मनाप्रसादाय, विदायलिप्सया, वनपालपाणिना, सादरम् , निवेद्यमानम् , पुष्पफलादि, प्रपद्य, पदे पदे, मुमुदे // 51 // वृत्तिः-विदेशजैः-विभिन्नाश्च ते देशा विषया विदेशास्तत्र जातानि उत्पन्नानि इति विदेशजास्तैस्तथा / भूपैः-राजभिः / मनःप्रसादाय-मनसश्चित्तस्य प्रसादः प्रसन्नता मनःप्रसादस्तस्मै तथा / विदायलिप्सया-वेदनं वित् ज्ञानम् आयो लाभः विच्च आयश्चेति विदायौ तयोर्लिप्सा प्राप्तीच्छा विदायलिप्सा, तया तथा / वनपालपाणिना-वनपालस्य उद्यानसंरक्षकस्य मालाकारस्येति यावत् पाणिहस्तो वनपालपाणिस्तेन तथा / सादरम्-ससत्कारम् , सश्रद्धमिति यावत् / निवेद्यमानम्-प्रतिपाद्यमानम् , उपहारीक्रियमाणमिति यावत् / पुष्पफलादि-पुष्पाणि कुसुमानि च फलानि प्रसवाश्च पुष्पफलानि तानि आदिः प्रधांनं यस्य तत् पुष्पफलादि वस्त्वितिशेषः / प्रपद्य-सम्प्राप्य / पदे पदे-स्थाने स्थाने प्रतिशब्दम् , प्रतिवाक्यम् , प्रतिवस्तु वा / विप्सायां द्विर्भावः / मुमुदे-तुतोष प्रासीददिति यावत् // 51 // विवेकिलोकैः कृतकेलिकर्मभि-विलोक्य लोकम्पृणतागुणे स्तुते / महाजनथारुसभाजनाश्रितो, व्यलोकयत् काननकामनीयकम् // 52 // अन्वयः-कृतकेलिकर्मभिः, विवेकिलोकः, विलोक्य, लोकम्पृणतागुणे, स्तुते, ( सति ) पारुसभाजनाश्रितः, महाजनः, काननकामनीयकम् , व्यलोकयत् // 52 // ___ वृत्तिः-कृतकेलिकर्मभिः केलीनां नर्मणाम् क्रीडानामिति यावत् , कर्मणि क्रिया आचरणानीति यावत् , केलिकर्माणि, कृतानि विहितानि केलिकर्माणि यैस्ते कृतकेलिकर्माणस्तैस्तथा। विवेकिलोके:-विवेकः सदसद्वस्तुविचारोऽस्त्येषामिति विवेकिनः, "अतोऽनेकस्वरात्" 7 / 2 / 6 // इत्यनेन मत्वर्थे 'इन्' प्रत्ययः, ते च ते लोकाः जनाः विवेकिलोकास्तैस्तथा / विलोक्य-विशेषेण दृष्ट्वा, सम्यगालोच्येति यावत् / लोकम्पृणतागुणे-लोकं प्रजा पृणातीति लोकम्पृणो जनोपकारकस्तस्य भावो लोकम्पृणता, सैव गुण उत्कर्षहेतुर्दयादाक्षिण्यत्यागशौर्यादिरिति यावत , लोकम्पृणतागुणस्तस्मिस्तथा / स्तुते-प्रशंसिते / (सति ) चारुसभाजनाश्रितः-चारवः शोभनाश्च ते सभाजनाः सभ्याः सदस्या इति यावत् , चारुसभाजनास्तानाश्रितोऽनुसृतश्चारुसमाजाश्रितः / महाजनः-महान् विशाल उदाराशय इति यावच्च जनो लोको महाजनः, काननकामनीयकम्-कमनीयस्य रमणीयस्य 'मनोहरस्येति यावद्' भावः कामनीयकम् , काननस्य वनस्य कामनीयकम् काननकामनीयकम् / उद्यानसम्बन्धिनी सुन्दरतामिति यावत् / व्यलोकयत्-प्रैक्षिष्ट, समदर्शदिति यावत् // 52 / / फलानि पुष्पाणि च पल्लवे करे, समं समादाय जने परस्परम् / _प्रसर्पति प्रीतिमना महामना, अमन्यतास्मिन् समये स्वधन्यताम्॥५३॥