________________ 180 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे ___ अन्वयः–ततः, चरैः, मञ्जुले, प्रसूने, च, फले, च, निवेश्य, देश्ये, वनपालपुङ्गवे, नृनाथसभ्येभ्यपटाश्रयान्तरम् विनीयमाने, अत्र, मुदः, अभवन् // 49 // वृत्तिः-ततः-तदनन्तरम् / चरैः-चरन्ति मध्ये राष्ट्रं गच्छन्तीति चरा दूतास्तैस्तथा / मञ्जुले-मनोहरे / प्रसूने-कुसुमे, पुष्पे इति यावत् / च-पुनः / फले-प्रसवे / 'प्रसवो' फलं च कुसुमेऽपि च' इति मेदिनी / च-पादपूर्णार्थकमव्ययम् / निवेश्य-संस्थाप्य / देश्ये-देशनयोग्ये, उपदेशाहे इति यावत् / वनपालपुङ्गवे-वनम् क्रीडाकाननम् पालयति रक्षति जलसेकादिभिरिति वनमालास्तेषां मध्ये पुङ्गवः श्रेष्ठस्तथा / नृनाथसभ्येभ्यपटाश्रयान्तरम्-नृणां मनुष्याणां नाथः स्वामी, प्रभुरिति यावत् नृनाथः नरपतिः, सभायां सदसि साधवः सभ्याः, इभ्या धनाढ्याः, नृनाथाश्च सभ्याश्च इभ्याश्च नृनाथसभ्येभ्यास्तेषां पटाश्रयाः वस्त्रालयाः नृनाथसभ्येभ्यपटाश्रयास्तेषामन्तरम् मध्यम् नृनाथसभ्येभ्यपटाश्रयान्तरम् तत्तथा / विनीयमाने-शिक्ष्यमाणे / अत्र-तादृशवस्त्रालये / मुदा-हर्षाः / अभवन्अभूवन समाजायन्त इति यावत् // 49 // कृतप्रसादो वनमालिनाऽवदत्, स सन्मुखस्थाङ्गुलिना जनाधिपः। निवेदिते पुष्पफलादिवस्तुनि, सुनिश्चलं तिष्ठ सुतुष्टचेतसा // 50 // अन्वयः-सन्मुखस्थाङ्गुलिना, वनमालिना, पुष्पफलादिवस्तुनि, निवेदिते, कृतप्रसादः, जनाधिपः, सः, सुतुष्टचेतसा, सुनिश्चलम् , तिष्ठ ( इति ) अवदत् // 50 // वृत्तिः-संमखस्थाङ्गलिना-सन्मुखेऽभिमुखे तिष्ठन्तीति सन्मुखस्थास्तादृशोऽङ्गुलयो यस्य स सन्मुखस्थाङ्गुलिस्तेन तथा / वनमालिना-माला सक् निर्मातव्यत्त्वेनास्त्यस्येति माली वनस्य काननोधानस्य माली मालिको वनमाली तेन तथा / पुष्पफलादिवस्तुनि-पुष्पाणि कुसुमानि च फलानि प्रसवाश्च पुष्पफलानि तान्यादिः प्रधानं यस्मिन् तत् पुष्पफलादि तच्च तद्वस्तु च पुष्पफलादिवस्तु तस्मिंस्तथा / निवेदिते-प्रतिपादिते / सतीतिशेषः / कृतप्रसादः-कृतो विहितः प्रसादः प्रसन्नता यस्य सः कृतप्रसादः / जनाधिप:-अधि-अधिकं पाति रक्षतीत्यधिपः, जनानां लोकानामधिपः प्रभुर्जनाधिपः, लोकनाथः / सा-प्रसिद्धः, भगवानशान्तिनाथ इति यावत् / सुतुष्टचेतसा-सु अतिशयेन तुष्टं सन्तुष्टम् सुतुष्टम् तब ततोऽन्तःकरणम् सुदुष्टचेतस्तेन तथा / सुनिश्चलम-सुनिष्कम्पम् / अत्यन्तनिर्भयमिति यावत् / तिष्ठ-अवतिष्ठस्व, निवसेति यावत् / इति-इत्येवम् वाक्यार्थः कर्म / अवदत्-अकथयत् // 50 // विदेशजेः पुष्पफलादि सादर, मनःप्रसादाय विदायलिप्सया / निवेद्यमान वनपालपाणिना, प्रपद्य भूपैर्मुमुदे पदे पदे // 51 //