________________ -आचार्य विजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां तृतीय सर्गः [179 अन्वयः-वारिनिवारणम् , वा, अरिनिवारणम् , द्विधा, अन्तःशिविरम् , वजन्तम् , मतङ्गजम् , दिक्षताम् , असान्द्रभावाध्वजुषाम् , उपेयुषाम् , पुरौकसाम् , दृष्टिप्रकरः, न्यवर्ति // 47 // वृत्तिः-वारिनिवारणम्-वारि जलं निवारयति प्रतिरुणद्धि इति वारिनिवारणः सेतुस्तन्तथा। सेतुं प्रतीत्यर्थः / वृजन्तम्-गच्छन्तम् / वा-अथवेत्यर्थकम् समुच्चयार्थकं वाऽव्ययम् / अरिनिवारणम्अरीन शत्रन निवारयति प्रतिरुणद्धीति अरिनिवारणः शत्रुप्रतिरोधकस्तन्तथा / अन्तःशिबिरम्शिबिरे सैन्यसन्निवेश इति अन्तःशिबिरम् शिबिरमध्य इति यावत् / व्रजन्तम्-गच्छन्तम् / द्विधाप्रकारद्वयविशिष्टम् , प्रकारद्वयेन वा / मतङ्गजम्-दन्तावलम् , हस्तिनमिति यावत् / दिदृक्षताम्दर्शनेच्छावताम् / असान्द्रभावाध्वजुपाम्-सान्द्रो निबिडः स्थिर इति यावत् / भावः स्वभावश्चेष्टा वा यस्या स सान्द्रभावः, न सान्द्र भावोऽसान्द्रभावस्तस्य अध्वा मार्गः, असान्द्रभावाध्वा पलायनमित्यर्थः, तं जुषन्ति सेवन्त इति असान्द्रभावाध्वजुषस्तेषान्तथा / उपेयुषाम्-सामीप्यमधिगतानाम् / पुरौकसाम्-पुरम् नगरमोको निवासस्थानम् येषान्ते पुरौकसस्तेषान्तथा / नगरवासिनामितियावत् / दृष्टिप्रकरैः-नेत्रसमूहैः / न्यवर्ति-निवर्तितम् // 47 // प्रविश्य तत्तनगरे ससाधने-र्धनैरुपादाय यथेष्टवास्तवम् / स्फुट दिदीपे कटकं भटैर्जनै-रनुव्रजबन्धुसमाजबन्धुभिः // 48 // अन्वयः-तत्तनगरे, प्रविश्य ससाधनैः, धनैः, यथेष्टवास्तवम् , उपादाय, अनुत्रजद्वन्धुसमाज. बन्धुभिः, भटैः, जनैः, कटकम् , स्फुटम् , दिदीपे // 48 // वृत्तिः-तत्तनगरे-तस्मिँस्तस्मिन्पुरे / प्रविश्य-प्रवेशमासाद्य / ससाधनः-साध्यत एभिरिति साधनान्युपकरणानि तैः सहितानि ससाधनानि तैस्तथा। धनैः-मणिकाञ्चनप्रभृतिवित्तैरितियावत् / यथेष्टवास्तवम्-वस्त्वेव वास्तवम् यथेष्ठं यथाभिलषितश्च तद् वास्तवम् यथेष्टवास्तवम् / उपादायगृहीत्वा / अनुव्रजद्वन्धुसमाजबन्धुभिः-अनुव्रजन् अनुगच्छन् चासौ बन्धुसमाजो बान्धववर्गोऽनुब्रजद्वन्धुसमाजः तेन बन्धुभिः सदृशैस्तथा / भटैः-योधैः, वीरैरिति यावत् / जनैः-लोकैः / कटकम्कटत्यावृणोति पृथिवीमिति कटकम् सैन्यम् , अनीकमिति यावत् / स्फुटम्-प्रकटं यथास्यात्तथा / दिदीपे-दिद्युते, विराजितमिति यावत् // 18 // ततः प्रसूने च फले च मञ्जुले, निवेश्य देश्ये वनपालपुङ्गवे / नृनाथसभ्येभ्यपटाश्रयान्तरं विनीयमानेऽत्र परेर्मुदोऽभवन् // 49 //