________________ 178 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनावचरित्रेवृत्तिः-पुर:-अप्रतः / घटालयान्-घटा हस्तिघटना आलयो वसतिर्येषान्ते ताँस्तथा / 'करिणां घटना घटा' इत्यमरः / बहुगन्धसिन्धुरान्-गन्धप्रधानाः सिन्धुरा गजा गन्धसिन्धुरा बहवश्व ते गन्धसिन्धुरा बहुगन्धसिन्धुरास्तास्तथा / दधान-धारयद्भिः / अन्यभूधनैः-भूः पृथिव्येव रक्षणीयत्वादुपभोग्यत्वात्प्रतिष्ठापादकत्वाच्च धनं वित्तमैश्वर्यमिति यावद्येषान्ते भूधना राजानः, अन्ये अपरे च ते भूधना अन्यभूधनास्तैस्तथा। सस्पृहम्-स्पृहया अभिलाषेण सहितं सस्पृहं यथा स्यात्तथा / वनान्तपर्यन्तम्-वनान्तस्य वनस्वरूपस्य पर्यन्तो मर्यादा वनान्तपर्यन्तस्तन्तथा / उपेत्य-गत्वा / तच्छासनम्-तस्य भगवतः शान्तिनाथस्य शासनमनुज्ञा तच्छासनम् तत्तथा / समेत्य-समधिगम्य / पटालया:-पटो वस्त्रम् तस्य आलया गृहाः पटालयाः वस्त्रनिर्मितगृहा इति यावत् / शिश्रियिरेसिषेविरे // 45 // परेऽप्यथासनचराचराचराः, क्रमेण तस्मिन्नवतीर्णदृक्पथे / विशश्रमुस्तच्छिबिरे बिलम्बिनि, भरावतारारवदुष्टमालिनि // 46 // अन्वयः- अथ, तस्मिन् , क्रमेण, अवतीर्णदृक्पथे, ( सति ) परे, अपि, आसन्नचराः, चराचराः, भरावतारारवदुष्ट्रमालिनि, विलम्बिनि, तच्छिबिरे, विशश्रमुः // 46 // वृत्तिः-अथ-अनन्तरम् / तस्मिन्-परममहःशालितया प्रसिद्धे भगवति शान्तिनाथे / क्रमेणक्रमशः / अवतीर्णदृक्पथे-दृशोर्नयनयोः पन्था मार्गो दृक्पथः अवतीर्णो दृक्पथो येन सोऽवतीर्णदृक्पथः तस्मिंस्तथा / चक्षुविषयतामतिक्रान्ते इति यावत् / सतीतिशेषः / परे-अन्ये / अपि-सम्भावनायाम् / आसन्नचरा:-आसन्ने समीपे चरन्ति विचरन्तीत्यासन्नचराः समीपवर्तिन इत्यर्थः / चराचरा:जङ्गमस्थावराः / भरावतारारवदुष्ट्रमालिनि-भरस्य भारस्य अवतारोऽधसंस्थापनम् भरावतारः आसमन्तादियति नक्षत्रेष्वित्यारो मङ्गलः, वक्रो वा प्रकृते आरपदस्य भावप्रधानत्वान्माङ्गल्यं वक्रता वाऽस्त्येषामित्यारवन्तस्ते च त उष्ट्राः कण्टकाशनाः, दाशेरा इति यावत् आरवदुष्टास्ते भरावतारेण आरवदुष्ट्रा भरावतारवदुष्ट्रास्तेषां माला श्रेणी भरावतारारवदुष्ट्रमाला सा ऽस्त्यस्मिन्निति भरावतारारवदुष्ट्रमालि तस्मिंस्तथा / विलम्बिनि-विशेषेण लम्बते तच्छीलम् बिलम्बि तस्मिंस्तथा / अतिदीर्षे इति यावत् / तच्छिबिरे-तस्य भगवतः शान्तिनाथस्य शिबिरम् सेनासन्निवेशः तच्छिबिरम् तस्मिंस्तथा / विशभ:-विभामं प्रापुः / / 46 // मतगजं वारिनिवारणं द्विधा, व्रजन्तमन्तःशिबिरं दिदृक्षताम् / न्यवर्ति दृष्टिप्रकरैः पुरोकसा-मसान्द्रभावाध्वजुषामुपेयुषाम् // 47 //