________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां तृतीयः सर्गः [ 177 अन्वयः-महाशयः, ततः, समुत्थाय, वज्रभृदर्पिते, शये, शयम् , निवेशयन् , यौवनभृत् , ( सः ) सुषुप्सया, प्रवालरागच्छुरितम् , कृतावनम् , वनम् , ययौ // 43 // वृत्तिः-महाशयः-महान् विशाल आशयोऽभिप्रायो यस्य स महाशयः / ततः तदनन्तरम् , मुनिमण्डलीतो वा / समुत्थाय-समुत्थितो भूत्वा / वज्रभृदर्पिते-वनं कुलिशं बिभर्ति धारयतीति वनभृत् इन्द्रस्तेन अर्पितो दत्तः, नियोजित इति यावत् वनभृदर्पितस्तस्मिँस्तथा / शये-शय्यते सुप्यतेऽत्रेति शयः शय्या, तस्मिँस्तथा। शयम्-हस्तम् / निवेशयन्-संस्थापयन् / यौवनभृत्-यौवनम् तारुण्यम् बिभर्ति धारयति इति यौवनभृत् , युवावस्थाविशिष्ट इति यावत् / (सः-भगवान शान्तिनाथः / ) सुषुप्सया-निद्रातु कामेन / प्रवालरागच्छुरितम्-प्रवालस्य विद्रुमस्य रागो लौहित्यम् प्रवालरागस्तेनच्छुरितम् समुज्जृम्भितम् , विलासितमिति यावत् प्रवालरागच्छुरितम् / कृतावनम्कृतं विहितमवनं रक्षणं प्राणिनां यत्र तत् कृतावनम् / अथवा कृतं विहितमवनं शान्तिप्रदानेन स्वस्क्षणं येन तत्तथा / वनम्-काननम् / ययौ-जगाम / गतवानिति यावत् // 43 // वयोनिनादैर्जयवादमादधत् , प्रवालवालविजनैः समीरयत् / निसर्गसम्यग् वनमेष पिप्रिये, हरिर्धनच्छायमिवार्णसां निधिम् // 44 // अन्वयः-हरिः, अर्णसाम्, निधिम् , इव, एषः, वयोनिनादः, जयवादम् , आदधत् , प्रचालवालविजनैः, समीरयत् , निसर्गसम्यक् , घनच्छायम्, वनम् , पिप्रिये // 44 // वृत्तिः-हरिः-भगवान् विष्णुः / अर्णसाम-जलानाम् / निधिम-निधानम् / समुद्रमित्यर्थः। इव-यथा / एपः-भगवाञशान्तिनाथः। वयोनिनादैः-वयसां पक्षिणां निनादाः शब्दा वयोनिनादाः तैस्तथा / जयवादम्-जयशब्दम् / आदधत्-कुर्वन् / प्रवालवालव्यजनैः-प्रवालाः किसलया एव बालव्यजनानि नूतनपवनोत्पादकपदार्थाः प्रवालवालव्यजनानि तैस्तथा / समीरयत्-समीर पवनं करोतीति समीरयत् / निसर्गसम्यक-स्वभावमनोरमम् / घनच्छायम्-घना सान्द्रा छाया आतपाभावो पत्र तत्तथा / वनम्-काननम् / पिप्रिये-समधिजगाम // 44 // वनान्तपर्यन्तमुपेत्य सस्पृहं, समेत्य तच्छासनमन्यभूधनैः / पटालयाः शिश्रियिरे घटालयान्, पुरोदधानैर्बहुगन्धसिन्धुरान् // 45 // अन्वयः-पुरः, घटालयान् , बहुगन्धसिन्धुरान् , दधानः, अन्यभूधन, सस्पृहम् , पनान्तपर्यन्तम् , उपेत्य, तच्छासनम् , समेत्य, पटालयाः, शिश्रियिरे // 45 //