________________ 176 ] श्रीजैननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे पपन्नमिति नो शक्यम्-“दशैते राजमातङ्गास्तस्यैवामी तुरङ्गमाः” “दुःखत्रयाभिघाताज्जिज्ञासा तदपघातके हेतौ” इत्यादौ प्रामाणिकानां प्रयोगेऽपि तथादर्शनात्तस्या व्युत्पत्तेः प्रायिकत्वात् / विवेशअविशत् / पापकर्मणः-पापम्-पापविशिष्टश्च तत् कर्म आचरणम् पापकर्म तस्य तथा / यद्वा-पापस्य दुष्कृतस्य प्रयोजकम् पापप्रयोजकम् तच्च तत्कर्म पापकर्म तस्य तथा / अन्तके-विनाशके / तदानकेतेषाम् मुनीनाम् तस्य भगवतः शान्तिनाथस्य वा आनकः पटहः तदानकस्तस्मिंस्तथा / के-कीदृशास्तावत् जना इति शेषः / न-नहि / चिदानन्दसिदः-चिदानन्दम् चित्स्वरूपमानन्दस्वरूपश्च विदन्ति जानन्ति इति चिदानन्दविदः / अपि तु सर्व एव चिदानन्दविद इति भावः / नञः काक्वर्थकत्वात्-“मथ्नामि कौरवशतं समरे न कोपाद् , दुःशासनस्य रुधिरं न पिबाम्युरस्तः / सञ्च र्गयामि गया न सुयोधनोरूँ सन्धि करोतु भवतां नृपतिः पणेन // " इत्यादौ नञः काकर्थकत्वात्-मथ्नाम्येवेति बोधनात् / / 41 / / स सात्विकस्तात्विकवर्गसङ्गत-स्ततः क्षणात् क्षोणिपतिर्धतीच्छया / चकार चर्चा श्रमणाश्रमेऽश्रमः, स्वसम्पदो वैश्रवणः स्वसम्पदाम् // 42 // अन्वयः-सात्त्विकः, तात्विकवर्गसङ्गतः, स्वसम्पदाम् , वैश्रवणः, क्षोणिपतिः, सः, ततः, क्षणात् . धृतीच्छया, अश्रमः, ( सन् ) श्रमणाश्रमे, स्वसम्पदः, चर्चाम् , चकार // 42 // वृत्तिः-सात्त्विक:-प्रसीदति मनोऽस्मिन्निति व्युत्पत्तेः सत्त्वगुणोत्कर्षात् साधुत्वाच्च प्रभात्मक वस्तु सत्त्वम् तत्र भवः सात्त्विकः / सत्त्वगुणविशिष्ट इति यावत् / तात्विकवर्गसङ्गतः- तात्त्विकाना याथार्थ्यविशिष्टानां वर्गः समूहस्तात्त्विकवर्गस्तेन सङ्गतस्तथा / स्वसम्पदाम्-स्वानि धनानि च सम्पदः सम्पत्तयश्च स्वसम्पदस्तासान्तथा। 'द्वन्द्वतत्पुरुषसमासयोः, परवल्लिङ्गत्वानुशासनात् / वैश्रवणाकुवेरः / क्षोणिपतिः-झोणेः पृथिव्याः पतिः स्वामी, ईशितेति यावत् , क्षोणिपतिस्तस्य तथा / साप्रसिद्धो भगवान् शान्तिनाथ इति यावत् / ततः-मुनिराजिराजितविहारकलितकाननप्राप्तिसमनन्तरमित्यर्थः / क्षणात्-उत्सवात् / क्षणात्मकसूक्ष्मकालविशेषेणैव वा / धृतीच्छया-शोकभयवियोगादिजनितोपप्लवनिवारणकारणीभूतः चित्तवृत्तिविशेषो धृतिस्तस्या इच्छा अभिलाषो धृतीच्छा तया तथा / अश्रम:-नास्ति श्रमः बहुतरशारीरव्यापारजन्मा निःश्वासाङ्गसम्मद निद्रादिकारणीभूतः खेद विशेषो यस्य स तथा / ( सन् ) श्रमणाश्रमे-श्रमणानां मुनीनामाश्रमः स्थानम् श्रमणाश्रमस्तस्मिस्तथा / स्वसम्पदः-स्वस्य आत्मनः सम्पत् सम्पत्तिधनधान्यादिरिति यावत्, स्वसम्पत् तस्यास्तथा। चर्चाम-चिन्ताम् आत्मश्रेयःसाधनमीमांसामिति यावत् / चकार-कृतवान् // 42 // ततः समुत्थाय महाशयः शयं, निवेशयन् वज्रभृदर्पिते शये / प्रवालरागच्छुरितं सुषुप्सया, ययौ वनं यौवनभृत् कृतावनम् // 43 //