________________ 174 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे आश्रीयतेऽत्रेति व्युत्पत्या स्वनिर्वाहोचितस्थानमित्यर्थः / न-नहि / इति-एवंप्रकारेण / न्यवेदयत्व्यज्ञापयत् // 37 // अयं समारुह्य हयं प्रभामयं, निजातपत्रस्य तलस्थलेऽनलः / दिदेश नीराजनकर्मणे जनान्, महौजसाऽऽविष्करणाय तेजसः // 30 // अन्वयः-प्रभामयम् , हयम् , समारुह्य, निजातपत्रस्य, तलस्थले, (स्थितः ), महौजसा, अनलः, अयम् , तेजसः, आविष्करणाय, नीराजनकर्मणे, जनान् , दिदेश // 38 // वृत्तिः-प्रभामयम्- कान्तिप्रचुरम् / हयम्-अश्वम् / समारुह्य-सम्यकप्रकारेण आरुह्येत्यर्थः / निजातपत्रस्य-निजमात्मीयश्च तदातपत्रम्-स्वर्णच्छत्रम् निजातपत्रम् तस्य तथा / तलस्थले-अधोभागे। ( स्थित:-अवस्थितः / ) महौजसा-महदतिशयितञ्च तदोजो बलम् महौजस्तेन तथा / अनल:अग्निस्वरूपः / अयम्-भगवाञ् शान्तिनाथः / तेजसः-प्रभावस्य / आविष्करणाय-प्रादुर्भावहेतवे / नीराजनकर्मणे-राज्ञामभावो नीराजम् तच्च तत्कर्म नीराजनकर्म तस्मै तथा यद्वा आरात्रि ककर्मणे / जनान्-लोकान् / विदेश-उपदिदेश, आदिशदिति वा // 38 // प्रभोः प्रभावद्धिविधौ समादधौ, सहायता या मरुतांपतिर्भुवि / मरुत् किमद्यापि न ताः सुशिक्षते, सनाऽप्यनालस्यधियाऽनले सुहृत् // 39 // अन्वयः-मरुतांपतिः, भुवि, प्रभोः, प्रभावर्द्धिविधौ, याः, सहायताः, समादधों, ताः, अद्यापि, मरुत् , सुहृत् , ( भूत्वा ) सना, अपि, अनालस्यधिया, अनले, न, सुशिक्षते, किम् // 39 // वृत्तिः-मरुतांपतिः-देवानाम् पतिः स्वामी इन्द्र इति यावत् / भुवि-पृथिव्याम् / प्रभोःत्रिभुवनस्वामिनः, श्रीमतः शान्तिनाथस्येति यावत् / प्रभावर्द्धिविधौ-प्रभावस्य प्रतापस्य तेजस इति यावत् / ऋद्भिः-समृद्धिः सम्पत्तिरित्यर्थः, प्रभावर्द्धिस्तस्या विधिविधानम् , सम्पादनमिति यावत् , प्रभावर्द्धि विधिस्तस्मिँस्तथा / या:-यादृशीः / सहायताः-साहाय्यानि / समादधी-व्यदधात् , कृतवानिति यावत् / ता:-तादृशीः, सहायता इति यावत् / अद्यापि-अद्यत्वेऽपि / मरुत-पवनः / सुहृत्मित्रम् ( भूत्वा ) सना-सर्वदा / अपि-सम्भावनायाम् / अनालस्यधिया-अलसस्य मन्दस्य भाव आलस्यम् मान्दाम् , न आलस्यमनालस्यम् , स्फूर्ति रिति यावत् / तद्विशिष्टा धीवुद्धिरनालस्यधीस्तया तथा / अनले-वह्नौ / न-नहि / सुशिक्षते-सम्यगभ्यस्यति / किम्-प्रश्नार्थकम् , निषेधार्थकम् वाऽव्ययम् / अपि तु सन्यगभ्यस्यति एवेति भावः / तथा च कुमारसम्भवमहाकाव्ये तृतीयसर्गे महाकविः कालिदासः “मधुश्च ते मन्मथसाहचर्या-दसावनुक्तोऽपि सहाय एव / समीरणो नोदयिता भवेति व्यादिश्यते केन हुताशनस्य” इति // 39 //