________________ --आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां तृतीयः सर्गः [ 173 भुजङ्गमैर्वक्रगतौ नृपाद् भिया, धृतं तल शून्यपदं विलासिभिः / विहङ्गमैः सा सकला ततश्चल-क्रियाश्रियाऽमण्डि तुरङ्गमैः स्थली // 36 // अन्वयः-विलासिभिः भुजङ्गमः, वक्रगतो, नृपात् , भिया, तलम् , धृतम् , विलासिभिः) विहङ्गमैः, शून्यपदम् , ( धृतम् ) ततः, तुरङ्गमैः, चलक्रियाश्रिया, सा. सकला, स्थली, अमण्डि // 36 // वृत्तिः-विलासिभिः-बिलेषु छिद्रेषु आसते तच्छीला बिलासिनस्तैस्तथा, "अजाते. शीले" 5 / 1 / 154 / / इत्यनेन तच्छीले ‘णिन्' प्रत्ययः / भुजङ्गमैः-भुजेन कौटिल्येन गच्छन्तीति भुजङ्गमाः पवनाशनः, सर्पा इति यावत् , तैस्तथा / वक्रगतो-वक्रा कुटिला चासौ गतिर्गमनम् वक्रगतिस्तस्यां तथा / कौटिल्यावलम्बने इति यावत् / नृपात्-राज्ञः श्रीमतः शान्तिनाथादिति भावः / भयावसाध्वसात् / तलम्-अनूर्ध्वम् , पातालतलमिति यावत् / धृतम्-आश्रितम् / निजावस्थानेनालकृतमितियावत् / विलासिभि:-विषु पक्षिषु लासिनः शोभवन्तो विलासिनस्तैस्तथा / विहङ्गमैः-पक्षिभिः / शून्य पदम्-शून्यम्, अभाववत् च तत्पदम् स्थानम् शून्यपदम् , आकाशमिति यावत् / धृतम्-अवलम्बितम् / ततः-तदनन्तरम् / तुरङ्गमैः-अश्वैः / चलक्रियाश्रिया-चलनम् चल एव क्रिया व्यापारश्वलक्रिया तत्र श्रीः शोभा चलक्रियाश्रीस्तया तथा / “क्रियाशब्दस्य नित्यस्त्रीत्वात्पुंवत् कर्मधारयः" इत्यनेन पुंवत्त्वाभाव इति द्रष्टव्यम् / सा-प्रसिद्धा / मकला-निखिला / स्थली-अकृत्रिमा मूमिः। अमण्डि-अलमकारि, समभूषीति यावत् // 36 // अचोकरचारुहयेन या भ्रमीः, श्रमी मनाग नेति चमूचरः परम् / .. न्यवेदयत् ताभिरलाभि तेरिणा, नरेश ! देशभ्रमिरेव नाश्रयः // 37 // अन्वयः-चमूचरः, मनाक् , श्रमी, चारुहयेन, याः, भ्रमीः, न, अचीकरत् , परम् , ताभिः, नरेश ! तव, अरिणा, देशभ्रमिः, एव, अलाभि, आश्रयः, न, इति, न्यवेदयत् // 37 // वृत्तिः–चनचरः-चमूषु सेनामात्रेषु तदाख्यसेनाविशेषेषु वा चरतीति चमूचरः / मनाकईषत् / श्रमी-परिश्रमी, बहुतरशरीरव्यापारजन्मा निःश्वासङ्गसमदनिद्रादिकारणीभूतः खेदविशेष इति यावत्, श्रमस्तादृशश्रमविशिष्टः / चारुहयेन-चारुमनोरमश्चासौ हयोऽश्वाश्चारुहयस्तेन तथा / याःयादृशीः / भ्रमी:-घूर्णनानि, घूर्णीरिति यावत् / न-नहि / अचीवरत्- स्वार्थिकणिजन्तकृधातोरद्यतन्या रूपमिदम् तेन अकार्षीदित्यर्थः / “दशवर्षसहस्राणि रामो राज्यमचीकरत्” इति वाल्मीकिप्रयोगदर्शनात् / परम्-केवलम् / ताभिः-भ्रमीभिः / नरेश !-मनुजेन्द्र ! / तव-भवतः / अरिणा-शत्रुणा / देशभ्रमिः-विषयभ्रमणम् / एव-अवधारणार्थकमव्ययम् / अलाभि समवापि / आश्रयः-अवलम्बः