________________ 172 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्र यथेष्टदानाम्बुभिरम्बुधिः सरो, यशोभिरेवाब्धिरकारि गोष्पदम् / व्यधायि पूर्णा वसतिर्भुवस्तले, रिपुस्थले वाऽप्यमुना ह्यमातमा // 34 // अन्वयः-अमुना, यथेष्टदानाम्बुभिः, सरः, अम्बुधिः, यशोभिः, एव, अधिः, गोष्पदम् , अकारि, भुवस्तले, पूर्णा, वसतिः, वा, रिपुस्थले, अमातमा, व्यधायि, हि // 34 // . वृत्तिः-अमुना-अनेन, विप्रकृष्टतया दृश्यमानेनेति यावत् / यथेष्टदानाम्बुभिः-यथेष्टं निकामम् पर्याप्तमिति यावदानम-वितरणम दीनेभ्यः प्रतिपादनमिति यावद्यथेष्टदानम तत् प्रयोजकानि अम्बूनि जलानि यथेष्टदानाम्बूनि तैस्तथा / “मयूरव्यंसकेत्यादयः" 3 / 1 / 116 / / इत्यनेन शाकपार्थिवादेराकृतिगणत्वान्मध्यमपदलोपी समासः। सर:-कासारः / अम्बुधिः-अम्बूनि जलानि धीयन्तेऽस्मिन्निति अम्बुधिः समुद्रः / अकारि-समपादि / यशोभिः-कीर्तिभिः। एव-अवधारणार्थकमव्ययम् / अब्धिः -समुद्रः / गोष्पदम्-गोपदश्वभ्रम् , गोखुरप्रमाणोऽनायासेन लक्ष्य एवंविध इति यावत् / भुवस्तले-भूमण्डले / पूर्णा-प्रचुरा, पर्याप्तेति यावत् / वसतिः-निवासस्थानम् / वा-समुच्चये / रिपुस्थले-रिपूणां शत्रूणां स्थलम् स्थानम् रिपुस्थलम् तस्मिँस्तथा / अमातमा-दर्शरात्रिः / किञ्च "अरिपुस्थले” इतिच्छेदं विधाय / अग्पुिस्थले-मित्रस्थाने / अमातमा-अमाताऽगणिता चासौ मा लक्ष्मीरमातमा / व्यधायि-अकारि / हि-निश्चयेन // 34 // सुवर्णधारामवलोक्य मार्गणे, कृपाणधारां समरे समार्गणे / इतीव धारामवधीर्य मण्डली, कृता घश्वापधरैस्तनूहिया // 35 // अन्वयः-मार्गणे, सुवर्णधाराम् , समार्गणे, समरे, कृपाणधाराम् , अवलोक्य, इतीव, धाराम् , अवधीयं, घनैः, चापधरः, तनूहिया, मण्डली, कृता // 35 // ____ वृत्तिः–मार्गणे-याचने / सुवर्णधाराम्-सुवर्णस्य काञ्चनस्य धारा निरवच्छिन्नप्रवाहः सुवर्णधारा तान्तथा / (च-पुनः। ) समानणे-मार्गणैर्बाणैः सहितः समार्गणस्तस्मिंस्तथा / समरेयुद्धे, सम्प्रहारे इति यावत् / कृपाणधाराम्-निरवच्छिन्नखड्गपातम् / अवलोक्य-संवीक्ष्य / इतीवअस्माद्धेतोरिव / धाराम्-सैन्याग्रिमस्कंदम् जलधारां वा / अवधीर्य-अनादृत्य, त्यक्त्वेति यावत् / धनैः-सान्द्रैः, बहुलैरिति यावत् मेधैर्वा / चापधरैः-धरन्तीति धराश्चापानां धराश्चापधरास्तैस्तथा। धनुर्धारिभिरिति यावत् / इन्द्रचापधरैर्वा मेघविशेषणमिदम् / तनूहिया-तन्वाः शरीरस्य हीः सङ्कोचस्तनूहीस्तया तथा / शरीरसंकोचविशेषेणेति यावत् / मण्डली-धनुर्धाराणां, स्थानविशेषः स्थलान्तरस्थितिः / कृता-विहिता / / 35 //