________________ 170 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रेवृत्तिः-जिनोक्तिषु-जिनस्य अर्हतः भगवतः शान्तिनाथस्येतियावदुक्तय-उपदेशामृतवचनानि जिनोक्तयस्तासु तथा। श्राद्धतया-आस्तिक्यम् , गुर्वागमादिवाक्येषु विश्वासो वा श्रद्धा तत्प्रयोजनमस्येति श्राद्धस्तस्य भावः श्राद्धता तया तथा / इव-यथा / अलङ्कृताः-प्रसाधिताः, अलङ्कारैर्विभूषिता इति यावत् / केचन-अनीर्वचनीयाश्वशुभलक्षणलक्षिता इत्यर्थः / सैन्धवाः-सिन्धुदेशोद्भवाः / राजवाजिनः-राज्ञः नृपतेः शान्तिनाथस्य वाजिनोऽश्वाः राजवाजिनः / रणे-युद्धे / अतिकौशलात-अत्यन्तनैपुण्यात् / शनैः-मन्दं यथा स्यात्तथा / चरन्त:-विचरन्तः, मध्येसैन्यं गच्छन्त इति यावत् / च-पुनः / धृतास्ययन्त्रा:-धृतमास्ययन्त्रम् मुखयन्त्रम् यैर्येषां वा तथा / अपि-सम्भावनायाम् / श्रावकपक्षे च-सैन्धवाः-सिन्धुदेशोद्भवाः / जिनोक्तिषु-जिनवचनामृतेषु / श्राद्धतया-श्रद्धया / चरणे-चरित्रे, आचारे इति यावत् / 'चरित्रं चरिताचारौ, चारित्रचरणे अपि' 3 / 507 / इत्यभि० चि० / अतिकौशलात्-नितान्तनैपुण्यात् / शनैश्चरन्तः-जीवानुपमर्दनाभिप्रायेण मदं विचरन्तः / धृतास्ययन्त्राः-धृतमास्ययन्त्रं मुखवस्त्रकादि यैस्ते तथा / अपि-सम्भावनायाम् / निर्वृतिम्-सौख्यम् / दधुः-धारयामासुः // 30 // निनसुना भूमिभुजापि भक्तये, पदे पदे भूर्युपदाप्रदायिना / विहारदेशं तमवाप्य मण्डली, निवेश्य चक्री शमकार्य्यतानुगैः // 31 // अन्वयः-भक्तये, पदे पदे, भूर्युपदाप्रदायिना, निनंसुना, भूमिभुजा, अपि, तम् , विहारदेशम् , अवाप्य, मण्डलीः, निवेश्य, अनुगः, चक्री, शम् , अकार्यंत // 31 // वृत्तिः-भक्तये-सेवायै / पदे पदे-प्रतिस्थानम् / भूर्युपदाप्रदायिना-भूरि सुवर्णन्तस्य उपदा उपहारो भूर्युपदा तां प्रदातुं वितरितुं शीलमस्येति भूर्युपदाप्रदायी तेन तथा / 'यद्वा' भूरिः प्रचुरा चासावुपदोपहारः भूर्युपदा तां प्रदातुं शीलमस्येत्यादि पूर्ववत् / निनंसुना-प्रणिनंसुना प्रणन्तुमिच्छुकेनेति यावत् / भूमिभुजा-मूमिं पृथिवीं भुनक्ति पालयतीति भूमिभुक् तेन तथा / अपि-सम्भावनायाम् / तम्-प्रसिद्धम् / विहारदेशम्-विहारस्य विचरणस्य भ्रमणस्येति यावद्देशो विषयो विहारदेशस्तन्तथा / यद्वा-विहरन्त्यस्मिन्निति विहारो जिनसद्म जिनमन्दिरमित्यर्थः / तस्य देशो विहारदेशस्तन्तथा / अवाप्य-समधिगत्य / मण्डली:-मण्डलानि / चक्रवालानीति यावत् / यद्वा-मण्डली इति प्रथमैकवचनान्तमेव पदमवगन्तव्यम् कर्मार्थप्रत्ययेन कर्मण उक्तत्वाद् द्वितीयाया अभावः / निवेश्य-संस्थाप्य, संयोज्येति यावत् / अनुगैः-अनु पश्चाद् गच्छतीति अनुगास्तैस्तथा / अनुयायिभिरिति यावत् / चक्री-चक्रवर्ती, सार्वभौम इत्यर्थः। भगवाञ्शान्तिनाथ इति यावत् / शम्कल्याणम् , मङ्गलमिति यावत् / अकार्यत-समपाद्यत // 31 //