________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां तृतीयः सर्गः [ 169 वृतिः-पाक्षिकैः-पक्षे उदयास्तदिग्द्वयमात्रैकपक्षे चरन्तीति पाक्षिकास्तैस्तथा / दिनेश्वराश्चैः-दिनस्य दिवसस्य ईश्वरः स्वामी दिनेश्वरस्तस्य अश्वास्तुरङ्गमा दिनेश्वगश्वास्तैस्तथा / न:-अस्माकं शान्तिनाथाश्रितानामश्वानामिति यावत् / महोदयम्-महान अतिशयितश्चासौ उदयोऽभ्युदयः, समुन्नतिरिति यावत् महोदयस्तन्तथा / समवेक्ष्य-समवलोक्य / त्रपापात्रतया-त्रपाया लजायाः पात्रम् भाजनम् आधार इति यावत् , त्रपापात्रम् तस्य भावस्त्रपापात्रता तया तथा / दिगन्तरे-दिशा दिशानामन्तरं बहिर्दिगन्तरम् तस्मिंस्तथा / गतम्-यातम् / इति-अस्माद्धेतोः / अर्धनभाकृतक्रमैः-अर्धेन पूर्वार्धन नभसि आकाशे कृतो विहितः क्रमः पादविक्षेपो यैस्तेऽर्धनभ:कृतक्रमास्तैस्तथा / तैः-प्रसिद्धैः / चक्रिसप्तिभिः-चक्रिणश्चक्रवर्तिनः शान्तिनाथस्य सप्रयोऽश्वाश्चक्रिसप्तयस्तैस्तथा / न्यवर्ति-परावति // 28 // चमूचरास्तस्य नृपस्य सादिनो, विनोदिनोऽप्यस्य दिनोदये जयम् / विधाय सर्वत्र विचित्रवादिनो, निवेदयामासुरथो रथोद्धताः // 29 // अन्वयः-तस्य, नृपस्य, चमूचराः, विनोदिनः, अपि, सादिनः, दिनोदये, अस्य, जयम् , विधाय, रथोद्धताः, विचित्रवादिनः, सर्वत्र, अथो, निवेदयामासुः // 29 / / वृत्तिः-तस्य-सकलैश्वर्यादिसम्पन्नत्वेन प्रसिद्धस्य / नृपस्य-राज्ञः शान्तिनाथस्येति यावत् / चमूचरा:-चमूषु सेनासु तद्विशेषेषु वा चरन्तीति चमूचराः। विनोदिनः-विनोदआमोदोऽस्त्येषामिति विनोदिनः / अपि-सम्भावनायाम् / सादिनः-इस्त्यश्ववारादयः। दिनोदये-दिनस्य दिवसस्य, उदय उत्पत्तिर्दिनोदयस्तस्मिँस्तथा, दिनस्य आद्यक्षणावच्छेदेनैवेति यावत् / अस्य-भगवतः शान्तिनाथस्य / जयम्-विजयम् / विधाय-सम्पाद्य / कृत्वेति यावत् / रथोद्धताः-रथैः स्यन्दनैः उद्धताउच्छृङ्खला रथोद्धताः / विचित्रवादिनः-विचित्रमाश्चर्यजनकं यथा स्यात्तथा वादयन्ति तच्छीला विचित्रवादिनः / “अजातेः शीले" 5 / 1 154 // इत्यनेन ताच्छील्ये ‘णिन्' प्रत्ययः / सन्त इतिशेषः / सर्वत्र-सवस्मिन् स्थले / अथो-मङ्गलम् 'अथाथोसंशये स्याता-मधिकारे च मङ्गले' इति शेषः / निवेदयामासुः-बोधयामासुः, प्रख्यापयामासुरिति यावत् / / 29 / / अलङ्कृताः केचन राजवाजिनो, जिनोक्तिषु श्राद्धतयैव सैन्धवाः। शनैश्चरन्तश्च-रणेऽतिकौशलाद्, धृतास्ययन्त्रा अपि निर्वृतिं दधुः // 30 // अन्वयः-जिनोक्तिषु, श्राद्धतया, इव, अलकूताः, केचन, सैन्धवाः, राजवाजिनः, रणे, अतिकौशलात् , शनैः, चरन्तः, च, धृतास्ययन्त्राः, अपि, नितिम् , दधुः // 30 / /